Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 118
________________ द्वितीयं परिशिष्टम् । व्याप्यस्य निवृत्तिः अतिप्रसङ्गात्, अतः सन्दिग्धविपक्षव्यावृत्तिकमिदं साधनम् । चरमदेहैः निश्चितव्यभिचारञ्च, तेहि तेनैव जन्मना मुक्तिभाजो न सप्तमपृथिवीं गच्छन्ति अथ च मुच्यन्ते । किञ्च, " विषमगतयोप्यधस्तात् उपरिष्टात्तुल्यमासहस्रारं गच्छन्ति च तिर्यञ्चः तदधोगत्यूनताऽहेतुः ।।" नहि अधोगतौ स्त्रीपुंसयोरतुल्यं सामर्थ्यमिति सुगतावपि अतुल्यत्वं युक्तम्, अशुभपरिणामस्य शुभपरिणामं प्रत्यहेतुत्वात् । तथाहि - भुजगखगचतुष्वात्सर्पजलचराणां विषमाऽधोगतिः -भुजगानां सं (नामसं) शिनां प्रथमायाम्, खगानां तृतीयायाम्, चतुष्पदां पञ्चम्याम्, सर्पाणां षष्ठयाम्, जलचराणां सप्तम्यामधोभूमौ उत्पादात्, शुभगतिस्तु समा सर्वेषामेवैषां सहस्रारान्तस्योपरि उत्पादस्य संभवात् । न च वादादिलब्ध्यभावात्तासां मोक्षाभावः' इत्थमेव मोक्षः' इति नियमाभावात् । “श्रूयन्ते हि अनन्ताः सामायिकमात्रसंसिद्धाः" [तत्त्वार्थभा० सम्बन्ध का० २७. (१)] यदि च स्त्रीणां यथा वादाद्यतिशयाः तपोविभवजन्मानो न संभवन्ति तथा मोक्षोपि न स्यात्, तदा आगमे तदतिशयाभाववत् मोक्षाभावोऽप्युच्येत । नह्यस्य परिशेषणे किञ्जिनिबन्धनं पश्यामः ।। अथ स्त्रीणां वस्त्रलक्षणपरिग्रहसद्भावान्न मोक्षः, तर्हि मोक्षार्थित्वात् किन्न तत् ताभिः परित्यज्यते ? न खलु वस्त्रं प्राणाः, तेपि हि मुक्यर्थिना परित्यज्यन्ते किं पुनर्न वस्त्रम् ? अथ “नो कप्पइ णिग्गंथीए अचेलाए होत्तए" [कल्पसू० ५-२०] इत्यागमविरोधः तस्याः तत्परित्यागे, तर्हि प्रतिलेखनवत् मुक्त्यङ्गमेव तत्स्यात् । यथैव हि सर्वज्ञैः मोक्षमार्गप्रणायकैः उपदिष्टं प्रतिलेखनं मुक्त्यङ्गं भवति, न पुनः परिग्रहः तथा वस्त्रमप्यविशेषात् । यदि च धर्मसाधनानां सूत्रविहितानां परिग्रहत्वं स्यात् तदा पिण्डौषधिशय्यादीनामपि वस्त्रवत् परिग्रहत्वं स्यात् । तथा च तदुपायिनां मोक्षाभावः स्यात् । सत्यपि वस्त्रे मोक्षाभ्युपगमे गृहिणां कुतो न मोक्षः इति चेत् ? ममत्वसद्भावात् । नहि गृही वस्त्रे ममत्वरहितः । ममत्वमेव च परिग्रहः । सति हि ममत्वे नग्नोऽपि परिग्रहवान् भवति । आर्यिकायाश्च ममत्वाभावाद् उपसर्गाद्यासक्तमिव अम्बरमपरिग्रहः । नहि यतेरपि ग्रामं गृहं वा प्रविशतः कर्म नोकर्म च आददानस्य अपरिग्रहत्वे . अममत्वादन्यत् शरणमस्ति । अथ वस्त्रे जन्तूत्पत्तेः हिंसासद्भावतः चारित्रस्यैवाऽसंभवात् कथं मोक्षप्राप्तिः ? तन्त्र, प्रमादाभावे हिंसाऽनुपपत्तेः । प्रमादो हि हिंसा । “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" [तत्त्वार्थसू० ७-१३ ] इत्यभिधानान् । अन्यथा पिण्डौषधिशय्यादौ यतेरपि हिंसकत्वं स्यात् ! १. तु० - पृ० १८॥ २. तु०-पृ० २०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146