________________
द्वितीयं परिशिष्टम् । व्याप्यस्य निवृत्तिः अतिप्रसङ्गात्, अतः सन्दिग्धविपक्षव्यावृत्तिकमिदं साधनम् । चरमदेहैः निश्चितव्यभिचारञ्च, तेहि तेनैव जन्मना मुक्तिभाजो न सप्तमपृथिवीं गच्छन्ति अथ च मुच्यन्ते ।
किञ्च, " विषमगतयोप्यधस्तात् उपरिष्टात्तुल्यमासहस्रारं गच्छन्ति च तिर्यञ्चः तदधोगत्यूनताऽहेतुः ।।"
नहि अधोगतौ स्त्रीपुंसयोरतुल्यं सामर्थ्यमिति सुगतावपि अतुल्यत्वं युक्तम्, अशुभपरिणामस्य शुभपरिणामं प्रत्यहेतुत्वात् । तथाहि - भुजगखगचतुष्वात्सर्पजलचराणां विषमाऽधोगतिः -भुजगानां सं (नामसं) शिनां प्रथमायाम्, खगानां तृतीयायाम्, चतुष्पदां पञ्चम्याम्, सर्पाणां षष्ठयाम्, जलचराणां सप्तम्यामधोभूमौ उत्पादात्, शुभगतिस्तु समा सर्वेषामेवैषां सहस्रारान्तस्योपरि उत्पादस्य संभवात् ।
न च वादादिलब्ध्यभावात्तासां मोक्षाभावः' इत्थमेव मोक्षः' इति नियमाभावात् । “श्रूयन्ते हि अनन्ताः सामायिकमात्रसंसिद्धाः" [तत्त्वार्थभा० सम्बन्ध का० २७. (१)] यदि च स्त्रीणां यथा वादाद्यतिशयाः तपोविभवजन्मानो न संभवन्ति तथा मोक्षोपि न स्यात्, तदा आगमे तदतिशयाभाववत् मोक्षाभावोऽप्युच्येत । नह्यस्य परिशेषणे किञ्जिनिबन्धनं पश्यामः ।।
अथ स्त्रीणां वस्त्रलक्षणपरिग्रहसद्भावान्न मोक्षः, तर्हि मोक्षार्थित्वात् किन्न तत् ताभिः परित्यज्यते ? न खलु वस्त्रं प्राणाः, तेपि हि मुक्यर्थिना परित्यज्यन्ते किं पुनर्न वस्त्रम् ? अथ “नो कप्पइ णिग्गंथीए अचेलाए होत्तए" [कल्पसू० ५-२०] इत्यागमविरोधः तस्याः तत्परित्यागे, तर्हि प्रतिलेखनवत् मुक्त्यङ्गमेव तत्स्यात् । यथैव हि सर्वज्ञैः मोक्षमार्गप्रणायकैः उपदिष्टं प्रतिलेखनं मुक्त्यङ्गं भवति, न पुनः परिग्रहः तथा वस्त्रमप्यविशेषात् । यदि च धर्मसाधनानां सूत्रविहितानां परिग्रहत्वं स्यात् तदा पिण्डौषधिशय्यादीनामपि वस्त्रवत् परिग्रहत्वं स्यात् । तथा च तदुपायिनां मोक्षाभावः स्यात् । सत्यपि वस्त्रे मोक्षाभ्युपगमे गृहिणां कुतो न मोक्षः इति चेत् ? ममत्वसद्भावात् । नहि गृही वस्त्रे ममत्वरहितः । ममत्वमेव च परिग्रहः । सति हि ममत्वे नग्नोऽपि परिग्रहवान् भवति । आर्यिकायाश्च ममत्वाभावाद् उपसर्गाद्यासक्तमिव अम्बरमपरिग्रहः । नहि यतेरपि ग्रामं गृहं वा प्रविशतः कर्म नोकर्म च आददानस्य अपरिग्रहत्वे . अममत्वादन्यत् शरणमस्ति ।
अथ वस्त्रे जन्तूत्पत्तेः हिंसासद्भावतः चारित्रस्यैवाऽसंभवात् कथं मोक्षप्राप्तिः ? तन्त्र, प्रमादाभावे हिंसाऽनुपपत्तेः । प्रमादो हि हिंसा । “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" [तत्त्वार्थसू० ७-१३ ] इत्यभिधानान् । अन्यथा पिण्डौषधिशय्यादौ यतेरपि हिंसकत्वं स्यात् !
१. तु० - पृ० १८॥ २. तु०-पृ० २०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org