________________
स्त्रीनिर्वाणप्रकरण
दिगम्बराचार्यश्रीप्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे स्त्रीनिर्वाणसम्बन्धी पूर्वपक्ष:__ " नन्विदमस्ति तत्प्रसाधकं प्रमाणम् – 'अस्ति स्त्रीणां निर्वाणम् अविकलकारणत्वात् पुंवत् । निर्वाणस्य हि कारणं रत्नत्रयम्, “ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" [तत्त्वार्थसू० १-१] इत्यभिधानात् । तच्च स्त्रीषु विद्यते, तथाहि - सर्वज्ञोक्तार्थानाम् ‘इदमित्थमेव' इति श्रद्धानं सम्यग्दर्शनम्, यथावदवगमः सम्यग्ज्ञानम्, तदुक्तव्रतस्य यथावदनुष्ठानं सम्यक्चारित्रम्, एतद्रत्नत्रयम् । एतच्च स्त्रीषु सिद्धयत् सर्वकर्मविप्रमोक्षलक्षणं मोक्षं साधयति । नहि स्त्रीषु रत्नत्रयस्य केनचिद्विरोधोऽस्ति यतोऽविकलकारणत्वासिद्धिः स्यात् ।
अथोच्यते - स्त्रियो रत्नत्रयविरुद्धाः पुंसोऽन्यत्वात् देवादिवत् । सुप्रसिद्धो हि देवनारकतिर्यग्भोगभूमिजानां पुंसोऽन्येषां देवादित्वेन रत्नत्रयस्य विरोधः, एवं स्त्रीणां स्त्रीत्वेनैव अस्य विरोधः सिद्ध इति । तदसमीक्षिताभिधानम्, यतोऽविकलकारणस्य भवतोऽन्यभावेऽभावात् विरोधगतिर्भवति । स्त्रीत्वसद्भावे च रत्नत्रयाभावः प्रत्यक्षतः, अनुमानात्, आगमाद्वा प्रतीयेत? न तावत् प्रत्यक्षतः, रत्नत्रयस्य अतीन्द्रियत्वात् । नाप्यनुमानतः, तदभावाऽविनाभाविनो लिङ्गस्य कस्यचिदभावात् । नाप्यागमात्, तत्र तदभावावेदिनः तस्याप्यसंभवात् । नहि सुरनारकादिवत् तत्र तदभावप्रतिपादकं किञ्चित् प्रवचनवचनं संभवति । नन्वस्तु रत्नत्रयमानं तत्र न तदस्माभिनिषिध्यते तस्य मोक्षाऽप्रसाधकत्वात्, यत्तु मोक्षप्रसाधकं प्रकर्षपयन्तप्राप्तम् तस्य तत्राभावात् मोक्षाभावः इति, तदयुक्तम्, अदृष्टे विरोधप्रतिपत्तेरनुपपत्तेः । न खलु प्रकर्षपर्यन्तं प्राप्तं रत्नत्रयम् अस्माकं दृश्यम्, न चादृश्यस्य विरोधः प्रतिपत्तुं शक्यः अतिप्रसङ्गात् । न चाप्रतिपन्नविरोधस्य तस्य तत्राभावो ग्रहीतुं शक्यः अतिप्रसक्तेरेव ।
अथ मतम् – अनुमानतः स्त्रीणां निर्वाणाभावप्रतीतेर्न तत्र तत्सद्भावाभ्युपगमो युक्तः, तथाहि-नास्ति स्त्रीणां निर्वाणम् सप्तमपृथिवीगमनाभावात् सम्मूच्छिमादिवत् इति, तदसङ्गतम्, विपर्ययव्याप्तेरसिद्धितः तद्गमनाभावस्य निर्वाणाभावेनाऽव्याप्तेः । इह यद् यत्र नियम्यते तद्विपर्ययेण तद्विपक्षस्य व्याप्तौ नियमो दृष्टः, यथा अग्निना धूमस्य व्याप्तौ धूमाभावेन अग्न्यभावस्य, शिंशपान्वस्य च वृक्षत्वेन व्याप्तौ वृक्षत्वाभावस्य शिंशपात्वाभावेन व्याप्तिः । न चैवमत्र विपर्ययव्याप्तिरस्ति, तदभावश्च सप्तमपृथिवीगमनादे: निर्वाणं प्रत्यकारणत्वात् अव्यापकत्वाच्च सिद्धः । नहि सप्तमपृथिवीगमनं निर्वाणस्य रत्नत्रयवत् कारणं सिद्धम् गुणाष्टकवद्वा व्यापकम् येन तदभावे निर्वाणाभावः स्यात् । नचाकारणाऽव्यापकस्य निवृत्तौ अकार्य
१. तु० -पृ० १३ पं० ३॥ २. तु० -पृ० १४ पं० १०॥ ३. तु० - पृ० १३ पं० ६॥ ४. तु० -पृ० १३-१४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org