________________
द्वितीयं परिशिष्टम् । अथामहद्धिकत्वेन स्त्रीणां पुरुषेभ्योऽपकर्षः । सोऽपि किमाध्यात्मिकी समृद्धिमाश्रित्य, बाह्यां वा । नाऽऽध्यात्मिकीम्, सम्यग्दर्शनादिरत्नत्रयादेस्तासामपि सद्भावात् । नापि बाह्याम्, एवं हि महत्यास्तीर्थकरादिलक्ष्म्या गणधरादयः, चक्रधरादिलक्ष्म्याश्चेतरक्षत्रियादयो न भाजनम्, इति तेषामप्यमहद्धिकत्वेनापकृष्यमाणत्वाद् मुक्त्यभावो भवेत । अथ याऽसौ पुरुषवर्गस्य महती समृद्धिस्तीर्थकरत्वलक्षणा, सा स्त्रीषु नास्तीत्यमहद्धिकत्वमासां विवक्ष्यते । तदानीमप्यसिद्धता, स्त्रीणामपि परमपुण्यपात्रभूतानां कासाञ्चित् तीर्थकृत्त्वाविरोधात्, तद्विरोधसाधकप्रमाणस्य कस्याऽप्यभावात्, एतस्याऽद्यापि विवादास्पदत्वात्, अनुमानान्तरस्य चाभावात् ।। __मायादिप्रकर्षक्त्वेनेत्यप्यशस्यम्, तस्य स्त्रीपुंसयोस्तुल्यत्वेन दर्शनाद्, आगमे च श्रवणात्, श्रूयते हि चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वम् । तन्न पुरुषेभ्यो हीनत्वं स्त्रीनिर्वाणनिषेधे साधीयान् हेतुः ।
यत् पुनः “निर्वाणकारणं ज्ञानादिपरमप्रकर्षः स्त्रीषु नास्ति, परमप्रकर्षत्वात्, सप्तमपृथ्वीगमनकारणाऽपुण्यपरमप्रकर्षवत्" न्यायकु० पृ० ८७०] इति तेनैवोक्तम् । तत्र मोहनीयस्थितिपरमप्रकर्षेण स्त्रीवेदादिपरमप्रकर्षेण च व्यभिचारः । “नास्ति स्त्रीणां मोक्षः, परिग्रहवत्त्वात् गृहस्थवद् " [न्यायकु० पृ० ८७२] इत्यपि न पेशलम्, धर्मोपकरणचीवरस्यापरिग्रहत्वेन प्रसाधितत्वात् । इति स्त्रीनिर्वाणे संक्षेपेण बाधकोद्धारः ।।
___ साधकोपन्यासस्तु-मनुष्यस्त्री काचिद् निर्वाति, अविकलतत्कारणत्वात्, पुरुषवत् । निर्वाणस्य हि कारणमविकलं सम्यग्दर्शनादिरत्नत्रयम् तच्च तासु विद्यते एवेत्यादित एवोक्तम्, इति नासिद्धमेतत् । विपक्षाद् नपुंसकादेरत्यन्तव्यावृत्तत्वाद् न विरुद्धमनैकान्तिकं वा । तथा मनुष्यस्त्रीजातिः कयाचिद् व्यक्त्या मुक्त्यविकलकारणवत्या तद्वती, प्रवज्याधिकारित्वात्, पुरुषवत् । न चैतदसिद्ध साधनं " गुम्विणी बालवच्छा य पव्वावेउं न कप्पइ" [निशीथ भा० गा० ३५०८, पञ्चकल्पभा० गा० २००] इति सिद्धान्तेन तासां तदधिकारित्वप्रतिपादनात्, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानान्तरीयकत्वात् । दृश्यन्ते च सांप्रतमप्यताः कृतशिरोलुञ्चना उपात्तपिच्छकाकमण्डलुप्रमुखयतिलिङ्गाश्च, इति कुतो नैतासां प्रवज्याधिकारित्वसिद्धिः यतो न मुक्तिः स्यात् ?"
एतान् पूर्वनिर्दिष्टान् ग्रन्थान् मुख्यतयाऽवलम्ब्य वैक्रमे पञ्चदशे शतके विद्यमानैः श्रीगुणरत्नसूरिभिः श्रीहरिभद्रसूरिविरचितषड्दर्शनसमुच्चयस्य [५२तमकारिकायाः] बृहद्वत्तौ [भारतीयज्ञानपीठप्रकाशितायां पृ० ३०१-३०८] अधिकं चाप्यपरमुत्प्रेक्ष्य वैक्रमे सप्तदशे शतके विद्यमानर्वाचकवरश्रीयशोविजयः श्रीहरिभद्रसूरिरचितशास्त्रवार्तासमुच्चयस्य स्याद्वादकल्पलताभिधायां वृत्तौ [पृ० ४२५-४३० ], उपाध्यायश्रीमेघविजयादिभिः युक्तिप्रबोध[पृ० ११४]प्रभृतिषु ग्रन्थेषु स्त्रीनिर्वाणसम्बन्धिनी चर्चा विस्तरेण विहितास्ति । जिज्ञासुभिस्तत्रैव विलोकनीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org