________________
स्त्रीनिर्वाणप्रकरणे
शुभगत्युपार्जनसामर्थ्य नास्तीत्यपि किं न स्यात् ?, तथा चाऽभव्यानां सप्तमपृथ्वीगमनं न भवेत् । __अथ वादादिलब्धिरहितत्वेन स्त्रीणां विशिष्टसामर्थ्यासत्त्वम्, यत्र खल्वैहिकवाद-विक्रियाचारणादि-लब्धीनामपि हेतुः संयमविशेषरूपं सामर्थ्यं नास्ति, तत्र मोक्षहेतुस्तद्भविष्यतीति कः सुधीः श्रद्दधीत ? । तदचारु, व्यभिचारात्, माषतुषादीनां तदभावेऽपि विशिष्टसामोपलब्धेः । न च लब्धीनां संयमविशेषहेतुकत्वमागमिकम्, कर्मोदयक्षयक्षयोपशमोपशमहेतुकतया तासां तत्रोदितत्वात् । तथा चाऽवाचि -- .. " उदयखयखओवसमोवसमसमुत्था बहुप्पगाराओ ।
एवं परिणामवसा लद्धीउ हवन्ति जीवाणां" ॥ [वि०भा० गा० ७९७]
चक्रवर्ति-बलदेव-वासुदेवत्वादिप्राप्तयोऽपि हि लब्धयः, न च संयमसद्भावनिबन्धना तत्प्राप्तिः । सन्तु वा तन्निबन्धना लब्धयः, तथापि स्त्रीषु तासां सर्वासामभावोऽभिधीयते, नियतानामेव वा । नाद्यः पक्षः, चक्रवर्त्यादिलब्धीनां कासाञ्चिदेव तासु प्रतिषेधात्, आमर्षीषध्यादीनां तु भूयसीनां भावात् । द्वितीयपक्षे तु व्यभिचारः, पुरुषाणां सर्ववादादिलब्ध्यभावेऽपि विशिष्टसामर्थ्यस्वीकारात्, अकेशवानामेव, अतीर्थकरचक्रवादीनामपि च मोक्षसंभवात् ।
अल्पश्रुतत्वमपि मुक्त्यवाप्त्याऽनुमितविशिष्टसामर्थ्यषितुषादिभिरेवाऽनैकान्तिकमित्यनुद्घोष्यमेव ।
अनुपस्थाप्यता-पाराञ्चितकशून्यत्वेनेत्यप्ययुक्तम्, यतो न तनिषेधाद् विशिष्टसामर्थ्याभावः प्रतीयते । योग्यतापेक्षो हि चित्रः शास्त्रे विशुद्ध्युपदेशः । उक्तं च--
" संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे ।
रोगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी" ॥ [स्त्रीनिर्वाण.]
पुरुषानभिवन्द्यत्वमपि योषितां नापकर्षाय, यतस्तदपि सामान्येन, गुणाधिकपुरुषापेक्षं वा । आद्येऽसिद्धतादोषः, तीर्थकरजनन्यादयो हि पुरन्दरादिभिरपि प्रणताः, किमङ्ग शेषपुरुषः ? द्वितीये तु शिष्या अप्याचार्य भिवन्द्यन्त एवेति तेऽपि ततोऽपकृष्यमाणत्वेन निर्वतिभाजो न भवेयुः, न चैवम्, चण्डरुद्रादिशिष्याणां शास्त्रे तच्छवणादिति मूलहेतोर्व्यभिचारः ।
__एतेन स्मारणाद्यकर्तृत्वमपि प्रतिक्षिप्तम् । अथ पुरुषविषयं स्मारणाद्यकर्तृत्वमत्र विवक्षितं, न तु स्मारणाद्यकर्तृत्वमात्रम्, न च स्त्रियः कदाचन पुंसा स्मारणादीन् कुर्वन्तीति न व्यभिचार । इति चेत् तहि पुरुषेतिविशेषणं करणीयम् । करणेऽप्यसिद्धतादोषः, स्त्रीणामपि कासाञ्चित् पारगतागमरहस्यवासितसप्तधातूनां क्वापि तथाविधावसरे समुच्छृङ्खलप्रवृत्तिपराधीनसाधुस्मारणादेरविरोधात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org