________________
द्वितीयं परिशिष्टम् ।
"l
'यत् संयमोपकाराय वर्त्तते प्रोक्तमेतदुपकरणम् ।
33
धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहाऽर्हन् ' ।। [स्त्रीनिर्वाण ०१२] उपकारकं हि करणमुपकरणाम्, अधिक्रियन्ते घाताय प्राणिनोऽस्मिन्निति त्वधिकरणम् । अथ प्रतिलेखनं तावत् संयमप्रतिपालनार्थं भगवतोपदिष्टम्, वस्त्रं तु किमर्थमिति ? तदपि संयमप्रतिपालनार्थमेवेति बूम:, अभिभूयन्ते हि प्रायेणाऽल्पसत्त्वतया विवृताङ्गोपाङ्गसंदर्शनजनितचित्तभेदैः पुरुषैरङ्गना अकृतप्रावरणा घोटिका इव घोटकैः ।
ननु यासामतितुच्छसत्त्वानां प्राणिमात्रेणाऽप्यभिभवः ताः कथं सकलत्रैलोक्याभिभावककर्मराशिप्रक्षयलक्षणं मोक्षं महासत्त्वप्रसाध्यं प्रसाधयन्तीति चेत् ? तदयुक्तम्, यतो नात्र शरीरसामर्थ्य मतिरिक्तं यस्य भवति तस्यैव निवाणोपार्जनगोचरेण सत्त्वेन भवितव्यमिति नियमः समस्ति, अन्यथा पङ्गवामनात्यन्तरोगिणः पुमांसोऽपि स्त्रीभिरभिभूयमाना दृश्यन्ते इति तेऽपि तुच्छशरीरसत्त्वाः कर्थं तथाविधसिद्धिनिबन्धनसत्त्वभाजो भवेयुः ? । यथा तु तेषां शरीरसामर्थ्यासत्त्वेऽपि मोक्षसाधनसामर्थ्यमविरुद्धम्, तथा स्त्रीणामपि सत्यपि वस्त्रे मोक्षाभ्युपगमे ।
गृहिणः कुतो न मोक्ष इति चेद्, ममत्वसद्भावात् न हि गृही वस्त्रे ममत्वरहितः, ममत्वमेव च परिग्रहः, सति हि ममत्वे नग्नोऽपि परिग्रहवान् भवति, शरीरेऽपि तद्भावात् । आर्यिकायाश्च ममत्वाभावादुपसर्गाद्यासक्तमिवाम्बरमपरिग्रहः, न हि यतेरपि ग्रामं गृहं वनं वा प्रतिवसतोऽममत्वादन्यच्छरणमस्ति । न च निगृहीतात्मनां महात्मनां कासाञ्चित् क्वचिदपि मूर्च्छाऽस्ति ?
.. उक्तं च
.........
――
Jain Education International
७९
"
" अवि अप्पणो वि देहमि नायरंति ममाइयं ।
[ दशवै ० ६ - २२ ]ति । एतेन 'मूर्छाहेतुत्वेन' इत्यपि पक्ष: प्रतिक्षिप्तः, शरीरवच्चीवरस्यापि काश्चित् प्रति मूर्च्छाहेतुत्वाभावेन परिग्रहरूपत्वाभावात् । तन्न सम्यग्दर्शनादिरत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकर्षः ।
नापि विशिष्टसामर्थ्यासत्त्वेन यतस्तदपि तासां किं सप्तमपृथ्वीगमनाभावेन, वादादिलब्धिरहितत्वेन, अल्पश्रुतत्वेन, अनुपस्थाप्यता - पाराञ्चितकशून्यत्वेन वा भवेत् । न तावदाद्यः पक्षः, यतोऽत्र सप्तमपृथ्वीगमनाभावो यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्यते, सामान्येन वा । प्राचि पक्षे चरमशरीरिभिरनेकान्तः । द्वितीये त्वयमाशयः - यथैव हि स्त्रीणां सप्तमपृथ्वीगमनसमर्थतीव्रतराशुभपरिणामे सामर्थ्याभावादपकर्ष:, तथा मुक्तिगमनयोग्योत्कृष्टशुभपरिणामेऽपि, चरमशरीरिणां तु प्रसन्नचन्द्र राजर्षिप्रमुखाणामुभयत्रापि सामर्थ्याद् नैकत्राऽप्यपकर्षः । तदयुक्तम्, यतो नायमविनाभावः प्रामाणिकः, यदुत्कृष्टाशुभगत्युपार्जनसामर्थ्याभावे सत्युत्कृष्टशुभगत्युपार्जनसामर्थ्येनापि न भवितव्यम्, अन्यथा प्रकृष्टशुभगत्युपार्जनसामर्थ्याभावे प्रकृष्टा
For Private & Personal Use Only
www.jainelibrary.org