________________
स्त्रीनिर्वाणप्रकरणे अपि च -- यदि वादादिलब्ध्यभाववनिःश्रेयसाभावोऽपि स्त्रीणामभविष्यत् ततस्तथैव सिद्धान्ते प्रत्यपादयिष्यत, यथा जम्बूयुगादारात् केवलज्ञानाभावः, न च प्रतिपाद्यते क्वापि स्त्रीणां निर्वाणाभाव इति तस्मादुपपद्यते स्त्रीणां निर्वाणमिति कृतं प्रसङ्गेन ।" -- पृ० २०-२२ । [ आगमोदयसमितिप्रकाशित] ।
रत्नप्रभसूरिविरचितरत्नाकरावतारिकाभिधप्रमाणनयतत्वालोक[७-५७]टीकान्तर्गता
स्त्रीनिर्वाणसम्बधिनी चर्चा -
" अथ दिक्पटाः प्रकटयन्ति - भवत्वेतादृशस्वरूपो मोक्षः, स तूपात्तस्त्रीशरीरस्यात्मन इति न मृष्यामहे । न खलु स्त्रियो मुक्तिभाजो भवन्ति । तथा च प्रभाचन्द्र:- “ स्त्रीणां न मोक्षः, पुरुषेभ्यो हीनत्वाद्, नपुंसकादिवत्" [न्यायकु० पृ० ८७६] इति ।
अत्र ब्रूमः- सामान्येनाऽत्र धर्मित्वेनोपात्ताः स्त्रियः, विवादास्पदीभूता वा । प्राचि पक्षे पक्षकदेशे सिद्धसाध्यता, असंख्यातवर्षायुष्कदुष्षमादिकालोत्पन्नतिरश्चीदेव्यभव्यस्त्रीणां भूयसीनामस्माभिरपि मोक्षाभावस्याभिधानात् । द्वितीये तु न्यूनता पक्षस्य, विवादास्पदीभूतेति विशेषणं विना नियतस्त्रीलाभाभावात् । प्रकरणादेव तल्लाभे पक्षोपादानमपि तत एव कार्य न स्यात् । तथाऽप्युपादाने नियतस्यैव तस्योपादानमवदातम्, यथा धानुष्कस्य नियतस्यैव लक्ष्यस्योपदर्शनमिति ।
हेतुकृतः पुरुषापकर्षोऽपि योषितां कुतस्त्यः ? किं सम्यग्दर्शनादिरत्नत्रयाभावेन, विशिष्टसामर्थ्यासत्त्वेन, पुरुषानभिवन्द्यत्वेन, स्मारणाद्य कर्तृत्वेन, अमहद्धिकत्वेन, मायादिप्रकर्षवत्त्वेन वा । प्राचि प्रकारे कुतः स्त्रीणां रत्नत्रयाभावः ? । सचीवरपरिग्रहत्वेन चारित्राभावादिति चेत् । तदचतुरस्रम् । यतः परिग्रहरूपता चीवरस्य शरीरसंपर्कमात्रेण, परिभुज्यमानत्वेन, मज़हेतुत्वेन वा भवेत् । प्रथमपक्षे क्षित्यादिना शरीरसंपकिणाऽप्यपरिग्रहेण व्यभिचारः । द्वितीयप्रकारे चीवरपरिभोगस्तासामशक्यत्यागतया, गुरूपदेशाद् वा । नाद्यः पक्षः, यतः संप्रत्यपि प्राणानपि त्यजन्त्यो याः संदृश्यन्ते तासामैकान्तिकात्यन्तिकानन्दसंपदर्थिनीनां बाह्यचीवरं प्रति का नामाशक्यत्यागता? नग्नयोगिन्यश्च काश्चिदिदानीमपि प्रेक्ष्यन्त एव । द्वितीयपक्षोअपि न सूक्ष्मः, यतो विश्वजनीनेन विश्वदर्शिना परमगुरुणा भगवता मुमुक्षुपक्ष्मलाक्षीणां यदेव संयमोपकारि, तदेव चीवरोपकरणं' “नो कप्पदि निग्गंथीए अचेलाए होत्तऐ" [बृहत्कल्पे उ. ५. सू. १६.] इत्यादिनोपदिष्टम्, प्रतिलेखनकमण्डलुप्रमुखवत्, इति कथं तस्य परिभोगात् परिग्रहरूपता? प्रतिलेखनादिधर्मोपकरणस्यापि तत्प्रसङ्गात् । तथा च--
१. तु०-पृ० १६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org