________________
स्त्रीनिर्वाणप्रकरणे अहंदुक्तेन यत्नेन सञ्चरतोऽस्य प्रमादाभावादहिंसकत्वे आयिकाया अपि अहिंसकत्वं स्यादविशेषात् । तदुक्तम् -
" जियदु य मरुदु अ जीवो अयदाचारस्स णिच्छिदा हिंसा ।
पयदस्स पत्थि बन्धो हिंसामेत्तेण समिदस्स ॥" [प्रवचनसा० ३-१७]
न च पुरुषैरवन्द्यत्वात् स्त्रीणां मोक्षाभावः, गणधरादिभिर्व्यभिचारात्, ते हि नाहदादिभिर्वन्द्यन्ते अथ च मुच्यन्ते । ततो रत्नत्रयमेव तत्कारणं न वन्द्यत्वमवन्द्यत्वं वा ।
न च मायाबाहुल्यात्तासां निर्वाणाभावः, पुंसामपि तद्बाहुल्यसद्भावात् । मोहोदयो हि तत्कारणम्, स च उभयोरप्य विशिष्ट: ।।
न च हीनसत्त्वाः स्त्रियः ततो न निर्वान्ति इत्यभिधातव्यम्, यतः सत्त्वं तपःशीलसाधारणम् इह एष्टव्यम् नान्यत्, तस्य निर्वाणं प्रत्यनङ्गत्वात्, तच्च आर्यासु सुप्रसिद्धमेव । उक्तञ्च -
" गार्हस्थ्येऽपि सुसत्वा विख्याताः शीलवत्तया जगति ।
सीतादयः कथं तास्तपसि विशीला विसत्त्वाश्च ॥" [ 'स्त्रीनिर्वाण० ३७] "तथा “ अट्ठ सयमेगसमये पुरुसाणं णिव्वुदी समक्खादा ।
थीलिंगेण च वीसं सेसा दसक त्ति बोधव्वा ॥" [ ] इत्याद्यागमश्च स्त्रीनिर्वाणे प्रमाणम् ।
६अथ अत्र स्त्रीशब्देन स्त्रीवेदो गृह्यते, कथमेवमपि स्त्रीणां निर्वाणनिषेधः ? यथैव हि स्त्रीवेदेन पुंसः सिद्धिः तथा स्त्रीणामपि स्यात्, भावो हि सिद्धेः कारणम् ।
"किञ्च, द्रव्यतः पुरुषः भावतः स्त्रीरूपो भूत्वा यथा निर्वाति तथा द्रव्यतः स्त्र्यपि भावतः पुरुषो भूत्वा किन्न निर्वाति अविशेषात् ? न च सिद्धयतो वेदः संभवति, अनिवृत्तिबादरसाम्यराये एव अस्य परिक्षयात् । अथ भूतपूर्वगत्या क्षपकश्रेण्यारोहणं येन वेदेन करोति तेनासौ मुक्तः इत्युच्यते, ननु किमनेन उपचारेण? स्त्रिया एव स्तनप्रजननधर्मादिमत्या निर्वाणमस्तु इति ॥ छ ।"-पृ० ८६५-८७० [ माणिक्यचंद्र दिगम्बर जैनग्रन्थमालाप्रकाशित ] ॥
१. तु०-पृ० २५॥ २. तु० -पृ. २७॥ ३. तु० -पृ० २८॥ ४. पृ० २८॥ ५. तु०-पृ० ३०॥ ६. तु०-पृ० ३०-३१॥ ७. तु०-पृ० ३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org