________________
केवलिभुक्तिप्रकरणे प्रथमं परिशिष्टम् ।
[ केवलिभुक्तिसम्बन्धिनी चर्चा यत्रोपलभ्यते तेभ्यः कतिपयप्राचीनग्रन्थेभ्य उपयोग्यंशोऽत्रोज्रियते]
सूत्रकृतांगसूत्रस्य शीलाचार्यविरचितायां वृत्तौ केवलिभुक्तेश्चर्चा' --
" ननु केवलिनो घातिकर्मक्षयेऽनन्तवीर्यत्वान्न भवत्येव कावलिक आहारः । तथाहि - आहारादाने यानि वेदनादीनि षट् कारणान्यभिहितानि तेषां मध्य एकमपि न विद्यते केवलिनि, तत् कथमसावाहारं बहुदोषदुष्टं गृह्णीयात् ? तत्र न तावत् तस्य वेदनोत्पते, तद्वेदनीयस्य दग्धरज्जुस्थानिकत्वात्, सत्यामपि न तस्य तत्कृता पीडा अनन्तवीर्यत्वात् । वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्ये न संभाव्यत एवेति । ईर्यापथं पुनः केवलज्ञानावरणपरिक्षयात् सम्यगवलोकयत्वेवासौ। संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितार्थत्वाद् अनन्तवीर्यत्वाद् नाहारग्रहणाय कारणीभवति । प्राणवृत्तिस्तु तस्यानपवर्तित्वादायुषोऽनन्तवीर्यत्वाच्चान्यथासिद्धैव । धर्मचिन्तावसरस्त्वपगतो निष्ठितार्थत्वात् । तदेवं केवलिनः कावलिकाहारो बह्वपायत्वाद् न कथञ्चिद् घटत इति स्थितम् ।
___ अत्रोच्यते--तत्र यत् तावदुक्तं 'घातिकर्मक्षये केवलज्ञानोत्पत्तावनन्तवीर्यत्वाद् न केवलिनो भुक्तिः ' इति तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनम् । तथाहि -- यदाहारनिमित्तं वेदनीयं कर्म तत् तस्य तथैवास्ते, किमिति सा शारीरी स्थितिः प्राक्तनी न भवति? प्रमाणं च -- 'अस्ति केवलिनो भुक्तिः , समग्रसामग्रीकत्वात्, पूर्वभुक्तिवत् । सामग्री चेयं प्रक्षेपाहारस्य तद्यथा-पर्याप्तत्वं? वेदनीयोदयः २ आहारपक्तिनिमित्तं तैजसशरीरं ३ दीर्घायुष्कत्वं चेति । तानि च समस्तान्यपि केवलिनि सन्ति ।
१. प्रभूतेषु स्थलेषु शब्दतोऽर्थतश्च समानप्रायेयं चर्चा षड्दर्शनसमुच्चयस्य गुणरत्नसूरिकृतायां वृतौ (पृ० २०३-२१०) उपलभ्यते ॥
२. "वैयावृत्यकरणं" ---१० गुण० । ३ तु.--१० ४० पं० १४-१५ ।। ४ “तथा च किमिति"--ष० गुण.।। ५ तु० -- पृ० ३९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org