Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 114
________________ द्वितीयं परिशिष्टम् । "l 'यत् संयमोपकाराय वर्त्तते प्रोक्तमेतदुपकरणम् । 33 धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहाऽर्हन् ' ।। [स्त्रीनिर्वाण ०१२] उपकारकं हि करणमुपकरणाम्, अधिक्रियन्ते घाताय प्राणिनोऽस्मिन्निति त्वधिकरणम् । अथ प्रतिलेखनं तावत् संयमप्रतिपालनार्थं भगवतोपदिष्टम्, वस्त्रं तु किमर्थमिति ? तदपि संयमप्रतिपालनार्थमेवेति बूम:, अभिभूयन्ते हि प्रायेणाऽल्पसत्त्वतया विवृताङ्गोपाङ्गसंदर्शनजनितचित्तभेदैः पुरुषैरङ्गना अकृतप्रावरणा घोटिका इव घोटकैः । ननु यासामतितुच्छसत्त्वानां प्राणिमात्रेणाऽप्यभिभवः ताः कथं सकलत्रैलोक्याभिभावककर्मराशिप्रक्षयलक्षणं मोक्षं महासत्त्वप्रसाध्यं प्रसाधयन्तीति चेत् ? तदयुक्तम्, यतो नात्र शरीरसामर्थ्य मतिरिक्तं यस्य भवति तस्यैव निवाणोपार्जनगोचरेण सत्त्वेन भवितव्यमिति नियमः समस्ति, अन्यथा पङ्गवामनात्यन्तरोगिणः पुमांसोऽपि स्त्रीभिरभिभूयमाना दृश्यन्ते इति तेऽपि तुच्छशरीरसत्त्वाः कर्थं तथाविधसिद्धिनिबन्धनसत्त्वभाजो भवेयुः ? । यथा तु तेषां शरीरसामर्थ्यासत्त्वेऽपि मोक्षसाधनसामर्थ्यमविरुद्धम्, तथा स्त्रीणामपि सत्यपि वस्त्रे मोक्षाभ्युपगमे । गृहिणः कुतो न मोक्ष इति चेद्, ममत्वसद्भावात् न हि गृही वस्त्रे ममत्वरहितः, ममत्वमेव च परिग्रहः, सति हि ममत्वे नग्नोऽपि परिग्रहवान् भवति, शरीरेऽपि तद्भावात् । आर्यिकायाश्च ममत्वाभावादुपसर्गाद्यासक्तमिवाम्बरमपरिग्रहः, न हि यतेरपि ग्रामं गृहं वनं वा प्रतिवसतोऽममत्वादन्यच्छरणमस्ति । न च निगृहीतात्मनां महात्मनां कासाञ्चित् क्वचिदपि मूर्च्छाऽस्ति ? .. उक्तं च ......... ―― Jain Education International ७९ " " अवि अप्पणो वि देहमि नायरंति ममाइयं । [ दशवै ० ६ - २२ ]ति । एतेन 'मूर्छाहेतुत्वेन' इत्यपि पक्ष: प्रतिक्षिप्तः, शरीरवच्चीवरस्यापि काश्चित् प्रति मूर्च्छाहेतुत्वाभावेन परिग्रहरूपत्वाभावात् । तन्न सम्यग्दर्शनादिरत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकर्षः । नापि विशिष्टसामर्थ्यासत्त्वेन यतस्तदपि तासां किं सप्तमपृथ्वीगमनाभावेन, वादादिलब्धिरहितत्वेन, अल्पश्रुतत्वेन, अनुपस्थाप्यता - पाराञ्चितकशून्यत्वेन वा भवेत् । न तावदाद्यः पक्षः, यतोऽत्र सप्तमपृथ्वीगमनाभावो यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्यते, सामान्येन वा । प्राचि पक्षे चरमशरीरिभिरनेकान्तः । द्वितीये त्वयमाशयः - यथैव हि स्त्रीणां सप्तमपृथ्वीगमनसमर्थतीव्रतराशुभपरिणामे सामर्थ्याभावादपकर्ष:, तथा मुक्तिगमनयोग्योत्कृष्टशुभपरिणामेऽपि, चरमशरीरिणां तु प्रसन्नचन्द्र राजर्षिप्रमुखाणामुभयत्रापि सामर्थ्याद् नैकत्राऽप्यपकर्षः । तदयुक्तम्, यतो नायमविनाभावः प्रामाणिकः, यदुत्कृष्टाशुभगत्युपार्जनसामर्थ्याभावे सत्युत्कृष्टशुभगत्युपार्जनसामर्थ्येनापि न भवितव्यम्, अन्यथा प्रकृष्टशुभगत्युपार्जनसामर्थ्याभावे प्रकृष्टा For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146