Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 113
________________ स्त्रीनिर्वाणप्रकरणे अपि च -- यदि वादादिलब्ध्यभाववनिःश्रेयसाभावोऽपि स्त्रीणामभविष्यत् ततस्तथैव सिद्धान्ते प्रत्यपादयिष्यत, यथा जम्बूयुगादारात् केवलज्ञानाभावः, न च प्रतिपाद्यते क्वापि स्त्रीणां निर्वाणाभाव इति तस्मादुपपद्यते स्त्रीणां निर्वाणमिति कृतं प्रसङ्गेन ।" -- पृ० २०-२२ । [ आगमोदयसमितिप्रकाशित] । रत्नप्रभसूरिविरचितरत्नाकरावतारिकाभिधप्रमाणनयतत्वालोक[७-५७]टीकान्तर्गता स्त्रीनिर्वाणसम्बधिनी चर्चा - " अथ दिक्पटाः प्रकटयन्ति - भवत्वेतादृशस्वरूपो मोक्षः, स तूपात्तस्त्रीशरीरस्यात्मन इति न मृष्यामहे । न खलु स्त्रियो मुक्तिभाजो भवन्ति । तथा च प्रभाचन्द्र:- “ स्त्रीणां न मोक्षः, पुरुषेभ्यो हीनत्वाद्, नपुंसकादिवत्" [न्यायकु० पृ० ८७६] इति । अत्र ब्रूमः- सामान्येनाऽत्र धर्मित्वेनोपात्ताः स्त्रियः, विवादास्पदीभूता वा । प्राचि पक्षे पक्षकदेशे सिद्धसाध्यता, असंख्यातवर्षायुष्कदुष्षमादिकालोत्पन्नतिरश्चीदेव्यभव्यस्त्रीणां भूयसीनामस्माभिरपि मोक्षाभावस्याभिधानात् । द्वितीये तु न्यूनता पक्षस्य, विवादास्पदीभूतेति विशेषणं विना नियतस्त्रीलाभाभावात् । प्रकरणादेव तल्लाभे पक्षोपादानमपि तत एव कार्य न स्यात् । तथाऽप्युपादाने नियतस्यैव तस्योपादानमवदातम्, यथा धानुष्कस्य नियतस्यैव लक्ष्यस्योपदर्शनमिति । हेतुकृतः पुरुषापकर्षोऽपि योषितां कुतस्त्यः ? किं सम्यग्दर्शनादिरत्नत्रयाभावेन, विशिष्टसामर्थ्यासत्त्वेन, पुरुषानभिवन्द्यत्वेन, स्मारणाद्य कर्तृत्वेन, अमहद्धिकत्वेन, मायादिप्रकर्षवत्त्वेन वा । प्राचि प्रकारे कुतः स्त्रीणां रत्नत्रयाभावः ? । सचीवरपरिग्रहत्वेन चारित्राभावादिति चेत् । तदचतुरस्रम् । यतः परिग्रहरूपता चीवरस्य शरीरसंपर्कमात्रेण, परिभुज्यमानत्वेन, मज़हेतुत्वेन वा भवेत् । प्रथमपक्षे क्षित्यादिना शरीरसंपकिणाऽप्यपरिग्रहेण व्यभिचारः । द्वितीयप्रकारे चीवरपरिभोगस्तासामशक्यत्यागतया, गुरूपदेशाद् वा । नाद्यः पक्षः, यतः संप्रत्यपि प्राणानपि त्यजन्त्यो याः संदृश्यन्ते तासामैकान्तिकात्यन्तिकानन्दसंपदर्थिनीनां बाह्यचीवरं प्रति का नामाशक्यत्यागता? नग्नयोगिन्यश्च काश्चिदिदानीमपि प्रेक्ष्यन्त एव । द्वितीयपक्षोअपि न सूक्ष्मः, यतो विश्वजनीनेन विश्वदर्शिना परमगुरुणा भगवता मुमुक्षुपक्ष्मलाक्षीणां यदेव संयमोपकारि, तदेव चीवरोपकरणं' “नो कप्पदि निग्गंथीए अचेलाए होत्तऐ" [बृहत्कल्पे उ. ५. सू. १६.] इत्यादिनोपदिष्टम्, प्रतिलेखनकमण्डलुप्रमुखवत्, इति कथं तस्य परिभोगात् परिग्रहरूपता? प्रतिलेखनादिधर्मोपकरणस्यापि तत्प्रसङ्गात् । तथा च-- १. तु०-पृ० १६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146