Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 110
________________ द्वितीयं परिशिष्टम् ननु 'महापापेन मिथ्यात्वसहायेन स्त्रीत्वमय॑ते, न हि सम्यग्दृष्टि: स्त्रीत्वं कदाचिद् बध्नाति इति कथं स्त्रीशरीरवर्तिन आत्मनो मुक्तिः स्यात् ? मैवं वोचः, सम्यक्त्वप्रतिपत्तिकाल एवान्तःकोटीकोटीस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवाद् मिथ्यात्वसहितपापकर्मसम्भवत्वमकारणम् । मोक्षकारणवैकल्यं तु तासु वक्तुमुचितम्, तच्च नास्ति, यतः - "जानीते जिनवचनं श्रद्धत्ते चरति चायिकाऽशबलम् नास्यास्त्यसम्भवोऽस्यां नादृष्टविरोधगतिरस्ति ।।" [स्त्रीनिर्वाण० ४ ] तत् सिद्धमेतद् मुक्तिसाधनधनासु साध्वीषु साधुवद् धनवपनमुचितमिति ।" श्री मलयगिरिसूरिविरचितायां प्रज्ञापनासूत्रवृत्तौ स्त्रीनिर्वाणसम्बन्धिनी चर्चा - "एतेन यदाहुराशाम्बराः ‘न स्त्रीणां निर्वाणम्' इति, तदपास्तं द्रष्टव्यं, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात्, तत्प्रतिषेधस्य युक्त्या अनुपपन्नत्वात्, तथाहि - मुक्तिपथो ज्ञानदर्शनचारित्राणि, ४ " सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः” ( तत्त्वार्थे अ० १ सू० १) इति वचनात्, सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणामप्यविकलानि । तथाहि - दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, जानते च षडावश्यक-कालिकोकालिकादिभेदभिन्नं श्रुतम्, परिपालयन्ति सप्तदशप्रकारमकलकं संयमम्, धारयन्ति च देवासुराणामपि दुर्धरं ब्रह्मचर्यम्, तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव न तासां मोक्षसम्भवः ? स्यादेतत् – अस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं वा, न पुनश्चारित्रं संयमाभावात् । तथाहि - स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यम्, "अन्यथा विवृताङ्गयस्तास्तिर्यकस्त्रिय इव पुरुषाणाम भिभवनीया भवेयुः, लोके च गोपजायते, ततोऽवश्यं ताभिर्वस्त्रं परिभोक्तव्यं, वस्त्रपरिभोगे च सपरिग्रहता, सपरिग्रहत्वे च संयमाभाव इति । तदसमीचीनम्, सम्यक्सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्छाऽभिधीयते, “ मुच्छा परिग्रहो वुत्तो" (दशवै० ६.२१) १. तु० -पृ० २९॥ २. पृ० १४ ३. मलयगिरिसूरिविरचितायां नन्दीसूत्रवृतौ प्रज्ञापनासूत्रवृत्तित एवात्रोध्रियत इति ध्येयम् ।। ४. तु० - पृ० १४॥ ५. तु०-पृ० १८॥ (पृ० १३१-१३३) अपीयं चर्चापलभ्यते, तथापि तत्र संक्षिप्तत्वात् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146