________________
द्वितीयं परिशिष्टम्
ननु 'महापापेन मिथ्यात्वसहायेन स्त्रीत्वमय॑ते, न हि सम्यग्दृष्टि: स्त्रीत्वं कदाचिद् बध्नाति इति कथं स्त्रीशरीरवर्तिन आत्मनो मुक्तिः स्यात् ? मैवं वोचः, सम्यक्त्वप्रतिपत्तिकाल एवान्तःकोटीकोटीस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवाद् मिथ्यात्वसहितपापकर्मसम्भवत्वमकारणम् । मोक्षकारणवैकल्यं तु तासु वक्तुमुचितम्, तच्च नास्ति, यतः -
"जानीते जिनवचनं श्रद्धत्ते चरति चायिकाऽशबलम्
नास्यास्त्यसम्भवोऽस्यां नादृष्टविरोधगतिरस्ति ।।" [स्त्रीनिर्वाण० ४ ] तत् सिद्धमेतद् मुक्तिसाधनधनासु साध्वीषु साधुवद् धनवपनमुचितमिति ।"
श्री मलयगिरिसूरिविरचितायां प्रज्ञापनासूत्रवृत्तौ
स्त्रीनिर्वाणसम्बन्धिनी चर्चा - "एतेन यदाहुराशाम्बराः ‘न स्त्रीणां निर्वाणम्' इति, तदपास्तं द्रष्टव्यं, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात्, तत्प्रतिषेधस्य युक्त्या अनुपपन्नत्वात्, तथाहि - मुक्तिपथो ज्ञानदर्शनचारित्राणि, ४ " सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः” ( तत्त्वार्थे अ० १ सू० १) इति वचनात्, सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणामप्यविकलानि । तथाहि - दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, जानते च षडावश्यक-कालिकोकालिकादिभेदभिन्नं श्रुतम्, परिपालयन्ति सप्तदशप्रकारमकलकं संयमम्, धारयन्ति च देवासुराणामपि दुर्धरं ब्रह्मचर्यम्, तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव न तासां मोक्षसम्भवः ?
स्यादेतत् – अस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं वा, न पुनश्चारित्रं संयमाभावात् । तथाहि - स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यम्, "अन्यथा विवृताङ्गयस्तास्तिर्यकस्त्रिय इव पुरुषाणाम भिभवनीया भवेयुः, लोके च गोपजायते, ततोऽवश्यं ताभिर्वस्त्रं परिभोक्तव्यं, वस्त्रपरिभोगे च सपरिग्रहता, सपरिग्रहत्वे च संयमाभाव इति । तदसमीचीनम्, सम्यक्सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्छाऽभिधीयते, “ मुच्छा परिग्रहो वुत्तो" (दशवै० ६.२१)
१. तु० -पृ० २९॥ २. पृ० १४
३. मलयगिरिसूरिविरचितायां नन्दीसूत्रवृतौ प्रज्ञापनासूत्रवृत्तित एवात्रोध्रियत इति ध्येयम् ।।
४. तु० - पृ० १४॥ ५. तु०-पृ० १८॥
(पृ० १३१-१३३) अपीयं चर्चापलभ्यते, तथापि तत्र संक्षिप्तत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org