Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 106
________________ द्वितीय परिशिष्टम् " सा स्वकवेदात् तिर्यग्वदलाभे मत्तकामिन्याः ।" [स्त्रीनिर्वाण० ५५] इति । अथ स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानामिधानामिधानादेवमुच्यते, इदमपि न सुन्दरम्, तत्र 'स्त्रीत्वानुबन्धस्य विवक्षितत्वात्, संभवति हि स्त्र्याकारविच्छिदेऽपि तत्कारणकर्मोदयाविच्छेदः, तदविच्छेदाच्च पुंस्त्वाद्यव्यवधानेन पुनः स्त्रीशरीरग्रहणमिति ।। किञ्च, ॥ ३मणुयगईए चउदस गुणठाणाणि होति" [ ]. तथा “पंचिदिएसु गुणठाणाणि हुंति चउदस" [ ] तथा " चउदस तसेसु गुणठाणाणि हुंति" [ ] तथा " भवसिद्धिगा व सव्ववाणेसु होति" [ ] इत्यादि स्त्रीशब्दरहितमपि प्रवचनं स्त्रीनिर्वाणे प्रमाणमस्ति, स्त्रीणामपि पुंवद् मनुष्यगत्यादिधर्मयोगात् । अथ सामान्यविषयत्वान्नेदं स्त्रीविशेषे प्रमाणम्, एवं सति पुरुषाणामपि विशेषरूपताऽस्ति न वा ? न तावन्नास्ति, मनुष्यगतिविशेषरूपत्वात्तेषाम् । अथास्ति विशेषरूपता, तथा सति तेष्वपि कथमेतत्प्रमाणम् ? यथा च तेषु प्रमाणं तथा किं न स्त्रीष्वपीति ? अथ पुरुषेष्वेव तदर्थवदिति स्त्रीषु तस्याप्रवृत्तिः, एवं सति किं न विपर्ययकल्पनापि ? न चैवमपर्याप्तकमनुष्यादीनां देवनारकतिरश्चां च निर्वाणप्रसङ्गः, तेषामेतद्वाक्याविषयत्वात । एतदविषयत्वं चापवादविषयत्वात् । उक्तं हि -- “ अपवादविषयं परिहृत्य उत्सर्गः प्रवर्तते" [ ] इति । अपवादश्च ४॥ मिच्छादिट्ठी अपज्जत्तगे" [ ] तथा “सुरनारएसु होंति चत्तारि तिरिएसु जाण पंचेव ।” [पंचसं० ४-१०] इत्यादिरागमः । आह च-- " मनुजगतौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् । पुंवत् स्त्रीणां सिद्धौ नापर्याप्तादिवद् बाधा ।।" [स्त्रीनिर्वाण० ५६] इति कृतं विस्तरेण ।” – पृ० ६७८-६८३ [आगमोदय-समिति प्रकाशित ॥ श्रीशान्तिसूरिविरचितायां न्यायावतारवातिकवृत्तौ विद्यमाना स्त्रीनिर्वाणसम्बन्धिनी चर्चा - "ते [दिगम्बरा] अपि स्त्रीणाममोक्षमनागममभ्युपेताः ......... । तथाहि - यथा तिर्यग्नारकामरासंख्यायुःसम्मूर्च्छजनरेषु रत्नत्रयस्य निर्वाणहेतोरभावोऽभिहितोऽर्हता तथा न योषासु तथापि ते तत्र तदभावं प्रतिपन्ना इति । नापि प्रत्यक्षेण रत्न १. पृ० ३७॥ २. तु० - पृ० ३३ ॥ ३. तु०-पृ० ३८॥ ४. पृ० ३८॥ ५. पृ० ३८॥ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146