________________
द्वितीय परिशिष्टम् " सा स्वकवेदात् तिर्यग्वदलाभे मत्तकामिन्याः ।" [स्त्रीनिर्वाण० ५५] इति ।
अथ स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानामिधानामिधानादेवमुच्यते, इदमपि न सुन्दरम्, तत्र 'स्त्रीत्वानुबन्धस्य विवक्षितत्वात्, संभवति हि स्त्र्याकारविच्छिदेऽपि तत्कारणकर्मोदयाविच्छेदः, तदविच्छेदाच्च पुंस्त्वाद्यव्यवधानेन पुनः स्त्रीशरीरग्रहणमिति ।।
किञ्च, ॥ ३मणुयगईए चउदस गुणठाणाणि होति" [ ]. तथा “पंचिदिएसु गुणठाणाणि हुंति चउदस" [ ] तथा " चउदस तसेसु गुणठाणाणि हुंति" [ ] तथा " भवसिद्धिगा व सव्ववाणेसु होति" [ ] इत्यादि स्त्रीशब्दरहितमपि प्रवचनं स्त्रीनिर्वाणे प्रमाणमस्ति, स्त्रीणामपि पुंवद् मनुष्यगत्यादिधर्मयोगात् । अथ सामान्यविषयत्वान्नेदं स्त्रीविशेषे प्रमाणम्, एवं सति पुरुषाणामपि विशेषरूपताऽस्ति न वा ? न तावन्नास्ति, मनुष्यगतिविशेषरूपत्वात्तेषाम् । अथास्ति विशेषरूपता, तथा सति तेष्वपि कथमेतत्प्रमाणम् ? यथा च तेषु प्रमाणं तथा किं न स्त्रीष्वपीति ? अथ पुरुषेष्वेव तदर्थवदिति स्त्रीषु तस्याप्रवृत्तिः, एवं सति किं न विपर्ययकल्पनापि ? न चैवमपर्याप्तकमनुष्यादीनां देवनारकतिरश्चां च निर्वाणप्रसङ्गः, तेषामेतद्वाक्याविषयत्वात । एतदविषयत्वं चापवादविषयत्वात् । उक्तं हि -- “ अपवादविषयं परिहृत्य उत्सर्गः प्रवर्तते" [
] इति । अपवादश्च ४॥ मिच्छादिट्ठी अपज्जत्तगे" [ ] तथा “सुरनारएसु होंति चत्तारि तिरिएसु जाण पंचेव ।” [पंचसं० ४-१०] इत्यादिरागमः । आह च--
" मनुजगतौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् ।
पुंवत् स्त्रीणां सिद्धौ नापर्याप्तादिवद् बाधा ।।" [स्त्रीनिर्वाण० ५६] इति कृतं विस्तरेण ।” – पृ० ६७८-६८३ [आगमोदय-समिति प्रकाशित ॥
श्रीशान्तिसूरिविरचितायां न्यायावतारवातिकवृत्तौ विद्यमाना स्त्रीनिर्वाणसम्बन्धिनी चर्चा -
"ते [दिगम्बरा] अपि स्त्रीणाममोक्षमनागममभ्युपेताः ......... ।
तथाहि - यथा तिर्यग्नारकामरासंख्यायुःसम्मूर्च्छजनरेषु रत्नत्रयस्य निर्वाणहेतोरभावोऽभिहितोऽर्हता तथा न योषासु तथापि ते तत्र तदभावं प्रतिपन्ना इति । नापि प्रत्यक्षेण रत्न
१. पृ० ३७॥ २. तु० - पृ० ३३ ॥ ३. तु०-पृ० ३८॥ ४. पृ० ३८॥ ५. पृ० ३८॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org