________________
स्त्रीनिर्वाणप्रकरणे
" परिभाषितो न शास्त्रे मनुजीशब्दोऽथ लौकिकोऽधिगतः ।
अस्ति च न तत्र बाधा स्त्रीनिर्वाणं ततो न कुतः ॥" [स्त्रीनिर्वाण० ४५] __ अथ दृष्ट एवागमे पुरुषाभिलाषात्मनि वेदाख्ये भावे स्त्रीशब्दः, इदमपि कुतो निश्चितम् ? किं तावत् 'स्त्रीशब्दः' इतिशब्दश्रवणमात्रात् स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानतो वा? न तावत् स्त्रीवेद इति श्रवणमात्रत इति युक्तम्, यदीह स्त्री चासौ वेदश्च स्त्रीवेद इति समानाधिकरणसमासो भवेत् तदा स्त्रीशब्दस्यार्थान्तरे वृत्तिर्भवेत्, तत्सद्भावश्च बाधकाभावेन कल्प्येत समासान्तराभावेन वा ? न तावद् बाधकाभावेन, तत्र हि स्त्रीशब्दस्य पुरुषाभिलाषात्मको भाव एवार्थो भवेत्, तथा च स्त्रीनिर्वाणसूत्रे किं स एव साक्षादर्थस्तदुपलक्षितं वा शरीरं? यदि स एव, तदा कि तदैव तद्भावो विवक्ष्यते भूतपूर्वगत्या वा ? तत्र यदि तदैव, तदा निर्वाणावस्थायामपि वेदसम्भवः । न चैतदागमिकम् । अथ भूतपूर्वगत्या, तदा देवादीनामपि निर्वाणप्राप्तिः, तथा च “सुरणारएसु चत्तारि होति" [पंचसं० ४-१०] इत्याद्यागमविरोधः, तेष्वपि भूतपूर्वगत्या चतुर्दशगुणस्थानसम्भवात् । अथ तदुपलक्षितं [वा] पुरुषशरीरम्, तदाऽसौ तदुपलक्षणं तत्र नियतवृत्तिरनियतवृत्तिर्वा ? यदि नियतवृत्तिस्तदाऽऽगमविरोधः, परिवर्तमानतयैव पुरुषशरीरे वेदोदयस्य तत्राभिधानात्, न चानुभवोऽप्येवमस्ति । अथानियतवृत्तिः, कथमसौ तदुपलक्षणम् ? अथैवंरूपमपि गृहादिषु काकाद्युपलक्षणमीक्ष्यत इत्यत्रापि तथोच्यते, एवं सति स्त्रीशरीरेऽपि कदाचित् पुरुषवेदस्योदयसम्भवात् स्त्रीणामपि निर्वाणापत्तिः, यथा हि पुरुषाणां भावतः स्त्रीत्वमेवं स्त्रीणामपि भावतः पुरुषत्वसम्भवोऽस्ति; भाव एव च मुख्यं मुक्तिकारणम्, तथा च यद्यप्रकृष्टेनापि स्त्रीत्वेन पुरुषाणां निर्वाणमेवमुत्कृष्टेन भावपुरुषत्वेन स्त्रीणामपि किं न निर्णाणम् ? इति ।
न च समासान्तरासम्भवेन स्त्रीवेद इत्यत्र समानाधिकरणसमासकल्पनम्, स्त्रिया वेदः स्त्रीवेद इति षष्ठीसमासस्यापि सम्भवात् । न चास्य स्त्रीशरीर-पुरुषाभिलाषात्मकवेदयोः सम्बन्धाभावेनायुक्तत्वमिति वाच्यम्, यतस्तयोः सम्बन्धाभावः किं भिन्नकर्मोदयरूपत्वेन, पुरुषवत् स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन वा ? न तावद् भिन्नकर्मोदयरूपत्वेन, भिन्नकर्मोदयरूपाणामपि 'पञ्चेन्द्रियजात्यादीनां देवगत्यादीनां च सदा सम्बन्धदर्शनात् । नापि पुरुषवत् स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन, इयं हि पुरुषाप्राप्तौ स्ववेदोदयादपि संभवत्येव, उक्तं च -
१. पृ० ३३ ॥ २. तु०-पृ० ३४॥ ३. पृ० १४ टि० २॥ ४. तु० -पृ० ३४॥ ५. तु० -पृ० ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org