________________
द्वितीयं परिशिष्टम्
अर्थतत्साधकप्रमाणाभावेन प्रकृतहेतोरसिद्धता, तत्रापि तत्साधकप्रमाणस्य किं प्रत्यक्षस्यानुमानस्यागमस्य वा ? तत्र यदि प्रत्यक्षस्य तदा किं स्वसम्बन्धिनः सर्वसम्बन्धिनो वा ? स्वसम्बन्धिनोऽपि किं बाह्यं यद्यथोदितप्रत्युपेक्षणादिरूपं कारणावैकल्यं तद्विषयस्य यदिवाऽऽन्तरं यच्चारित्रादिपरिणामात्मकं तग्दोचरस्य ? न तावदाद्यस्य, स्त्रीष्वपि यथोदितप्रत्युपेक्षणादेरर्णविधानस्येक्षणात् । अथ द्वितीयस्य, तदा तदभावस्याग्दृिशां पुरुषेष्वपि समानत्वात् तेषामपि कारणावैकल्यस्यासिद्धिप्रसङ्गः, सर्वसम्बन्धिनस्तु प्रत्यक्षस्यासर्वविदा सत्त्वेनासत्त्वेन [वा] क्वचिन्निश्चेतुमशक्यत्वात् तदभावेन प्रकृतहेतोरसिद्धतेत्यनुद्घोष्यमेव । अथानुमानस्य, तदप्यसत्, तदभावस्य पुरुषेष्वपि समानत्वात्, न ह्यर्वाग्दृशां स्त्रीषु पुरुषेषु वा तत्त्वतस्तदव्यभिचारि लिङ्गमस्ति येनानुमानं स्यात् । अथास्त्येव पुरुषेष्वनुमानं, तथाहि - यदुत्कर्षापकर्षाभ्यां यस्यापकर्षोत्कर्षों तस्यात्यन्तापकर्षे तदत्यन्तोत्कर्षवदृष्टं, यथाऽभ्रपटलापगमे सवितृप्रकाशः, रागाद्युत्कर्षापकर्षाभ्यामपकर्षोत्कर्षवच्च चारित्रादि, न च रागाद्यपचयप्रकर्षस्यासम्भवो यतो यत्प्रकृष्यमाणहानिकं तत्क्वचित्सम्भविहानिप्रकर्षनिष्ठमपि दृष्टं, यथा हेमनि कालिकाकिट्टादि, प्रकृष्यमाणहानयश्च रागादयः, तथैव तेषां प्राणिषु प्रतीतत्वात्, नन्वेतत् स्त्रीष्वपि समानमिति । नाप्यागमस्य, तस्य प्रस्तुतस्यापि साक्षात् स्त्रीनिर्वाणाभिधायित्वेनार्थतस्तत्कारणावैकल्यसाधकत्वात् ।
न च 'स्त्रीशब्दस्यान्यार्थत्वं परिकल्पनीयम् । तद्धि लोकरूढितः, आगमपरिभाषातो वा भवेत् ? न तावल्लोकरूढितः, लोके हि यस्मिन्नर्थे यः शब्दोऽन्वयव्यतिरेकाभ्यां वाचकत्वेन दृश्यते स तस्यार्थो यथा गवादिशब्दानां सास्नादिमदादयः, न च स्त्रीशब्दस्य स्तनादिमदाकारमर्थमन्तरेणान्यस्यान्वयव्यतिरेकाभ्यां वाच्यत्वेन प्रतीतिरस्ति, उक्तं च -
" स्तन-जघनादिव्यङ्गये स्त्रीशब्दोऽर्थे न तं विहायैषः ।
दृष्ट: क्वचिदन्यत्र त्वग्निर्माणवकवद् गौणः । [स्त्रीनिर्वाण० ४५ ] इति ।
नाप्यागमपरिभाषातः, यतो नागमे क्वचित् स्त्रीशब्दस्य परिभाषितोऽर्थो यथा ३व्याकरणे "वृद्धिरादैच्" [पा. १-१-१] इति वृद्धिशब्दस्यादैचौ । दृश्यते चागमेऽपि लोकरूढ एवार्थे स्त्रीशब्द: " इत्थीओ जंति छठ्ठि" [ ] इत्यादौ । न च तत्राप्यर्थान्तरपरिकल्पना, बाधकं विना तदनुपपत्तेः,
उक्तं च
-
१. तु०-पृ० ३०-३१॥ २. पृ० ३२॥ ३. तु० -पृ० ३२॥ ४. तु०-पृ० ३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org