SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ स्त्रीनिर्वाणप्रकरणे " संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी ॥" ['स्त्रीनिर्वाण० २६] यच्च पुरुषानभिवन्द्यत्वं हेतुरुक्तः तदपि सामान्येन गुणाधिकपुरुषापेक्षं वा ?, यदि सामान्येन तदाऽसिद्धतादोषः, तीर्थकरजनन्यादयो हि शक्रादिभिरपि प्रणताः किमङ्ग शेषपुरुषैः ? गुणाधिकपुरुषापेक्षं चेद् गणधरा अपि तीर्थकृद्भिर्नाभिवन्द्यत इति तेषामप्यपकृष्यमाणत्वम् । अथ तीर्थशब्दस्य आद्यगणधराभिधायित्वात् तीर्थप्रणामपूर्वकत्वाच्चाहद्देशनाया असिद्धमेव तदनभिवन्द्यत्वं गणधराणाम्, एवं तहि चातुर्वर्णसङ्घस्यापि तदभिधेयत्वात् तदन्तर्भावाच्च स्त्रीणामहद्भिरपि वन्द्यत्वे कथं पुरुषानभिवन्द्यत्वेन तासां तेभ्योऽपकृष्यमाणत्वम् ? । ३अथ स्मारणाद्यकर्तृत्वेन, एवं सति समानेऽपि रत्नत्रये शिष्याचार्ययोराचार्यस्यैव मुक्तिः स्यात्, न शिष्यस्य, स्मारणाद्यकर्तृत्वेन तस्य ततोऽपकृष्यमाणत्वात् । न चैतदागमिकम्, चण्डरुद्राद्याचार्यशिष्याणामागमे निःश्रेयसश्रवणात् । __अथामहद्धिकत्वेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वं, तथा सति प्रष्टव्योऽसि - किमाध्यात्मिकीमद्धिमाश्रित्य बाह्यां वा ? तत्र न तावदाध्यात्मिकीम्, उक्तन्यायतो रत्नत्रयस्य तासां समर्थितत्वात् । नापि बाह्याम्, एवं हि महत्यास्तीर्थकरादिलक्ष्म्या गणधरादयश्चक्रघरादिलक्ष्म्याश्चेतरेऽक्षत्रियादयो न भाजनमिति तेषामप्यमद्धिकत्वेनापकृष्यमाणत्वाद् मुक्तिकारणवैकल्यप्रसङ्गः । "यदपि 'मायादिप्रकर्षवत्वेन' इत्युच्यते तदप्यसत्, तस्योभयोरपि तुल्यत्वेन दर्शनादागमे च श्रवणात्, श्रूयते हि चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वम् । अतो न तासां पुरुषेभ्योऽपकृष्यमाणत्वेन कारणावैकल्यस्य हेतोरसिद्धता । यदपि 'निर्वाणस्थानाद्यप्रसिद्धत्वेन' इत्युक्तं तदप्यसाधकम्, यतो न निर्वाणस्थानादिप्रसिद्धिः कारणावैकल्यस्य कारणं व्यापकं वा येन तन्निवृत्तौ तस्य निवृत्तिः । अथाऽऽत्थ यदि स्त्रीणां मुक्तिकारणावैकल्यमभविष्यत् मुक्तिरप्युदपत्स्यत, तथा च तत्स्थानादिप्रसिद्धिरपीति, नैवम्, तत्स्थानादिप्रसिद्धि प्रति मुक्तेरव्यभिचारित्वाभावात्, अन्यथा हि पुरुषाणामपि येषां मुक्तिस्थानाद्यप्रसिद्धिस्तेषां तदभावप्रसङ्गः । १. पृ० २४॥ २. तु० -पृ० २५-२६ ॥ ३. तु० - पृ० २६॥ ४. तु०-पृ० २६ ।। ५. तु०-पृ० ५७॥ ६. तु० -पृ० २७-२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001144
Book TitleStree Nirvan Kevalibhukti Prakarane Tika
Original Sutra AuthorShaktayanacharya
AuthorJambuvijay
PublisherAtmanand Jain Sabha
Publication Year1974
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy