________________
द्वितीयं परिशिष्टम् यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्यत सामान्येन वा ? तत्र यद्याद्यो विकल्पस्तदा पुरुषाणामपि यत्र जन्मनि मुक्तिगामिता न तत्रैव सप्तमपृथ्वीगमनमिति तेषामपि मुक्त्यभावप्रसङ्गः । अथ सामान्येन, अत्र चायमाशयो यथा - ___ “छट्टिं च इत्थियाओ मच्छा मणुया य सत्तमी पुढवीं ।” ['बृहत्सं०] इत्यागमवचनात् पुरुषाणामेव सप्तमनरकपृथ्वीगमनयोग्यकर्मोपार्जनसामर्थ्यं न स्त्रीणामित्यधोगतौ पुरुषतुल्यसामर्थ्याभावादूर्ध्वगतावपि तासां तदभावोऽनुमीयते, ततस्तासां पुरुषेभ्योऽपकृष्यमाणतेति । तदप्ययुक्तम्, यतो येषामघोगतौ तुल्यसामर्थ्याभावस्तेषामूर्ध्वगतावप्यनेन भाव्यमिति न नियमोऽस्ति, तथाहि -
" समुच्छिम-भुयग-खग-चउप्पय-सप्पि-त्थि-जलचरेहितो ।
सनरेहितो सत्तसु कमोववज्जति नरएसु ॥" [ ] ___ इति वचनाद्भुजग-चतुष्पत्-सर्प-खग-जलचर-नराणामधोगतावतुल्यं सामर्थ्यमूर्ध्वगतौ तु -
३" सन्नितिरिक्खेहितो सहस्सारंतिएसु देवेसु ।
उप्पज्जति परेसु वि सव्वेसु वि माणुसेहितो ॥" [ ] इति वचनादेषामासहस्त्रारान्तोपपातात्तुल्यमेव सामर्थ्यम्, उक्तं च -
" विषमगतयोऽप्यधस्तादुपरिष्टात् तुल्यमासहस्रारम् ।
गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥" [स्त्रीनिर्वाण० ६] अतो नासप्तमनरकपृथ्वीगमनत्वेन विशिष्टसामर्थ्यासत्त्वम् ।
अथ वादादिलब्धिरहितत्वेन, तदप्यचारु, यतो यदि वादादिलब्धिमत्त्वेन विशिष्टसामर्थ्य व्याप्तमुपलब्धं भवेत् ततस्तनिवृत्तौ तस्य निवृत्तिः स्यात्, न चैवम्, अनयोप्प्यव्यापकभावस्य क्वचिदनिश्चयात् । अल्पश्रुतत्वं तु मुक्त्यवाप्त्याऽनुमितविशिष्टसामर्थ्यषितुषादिभिरनैकान्तिकमित्यनुद्घोष्यमेव । यदप्यनुपस्थाप्यतापाराञ्चितकशून्यत्वेनेत्युच्यते, तदप्ययुक्तम्, यतो न तनिषेधाद् विशिष्टसामर्थ्याभावः प्रतीयते, योग्यतापेक्षो हि चित्रः शास्त्रे विशुद्धयुपदेशः, यदुक्तम् -
१. " असन्नी खलु पढमं दुच्चं च सरिसवा तइय पक्खी। सीहा जति चउत्थिं उरगा पुण पंचमि पुढवि ।।२८४ ॥ छट्रिं च इत्थियाओ मच्छा मणुया य सत्तमि पुढविं। एसो परमुववाओ बोधव्यो नरयपुढवीसु ।।२८५॥"- बृहत्सं०॥
२. तु० -पृ० १५॥ ३. तु० -पृ० १६॥ ४. पृ० १५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org