Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 104
________________ द्वितीयं परिशिष्टम् अर्थतत्साधकप्रमाणाभावेन प्रकृतहेतोरसिद्धता, तत्रापि तत्साधकप्रमाणस्य किं प्रत्यक्षस्यानुमानस्यागमस्य वा ? तत्र यदि प्रत्यक्षस्य तदा किं स्वसम्बन्धिनः सर्वसम्बन्धिनो वा ? स्वसम्बन्धिनोऽपि किं बाह्यं यद्यथोदितप्रत्युपेक्षणादिरूपं कारणावैकल्यं तद्विषयस्य यदिवाऽऽन्तरं यच्चारित्रादिपरिणामात्मकं तग्दोचरस्य ? न तावदाद्यस्य, स्त्रीष्वपि यथोदितप्रत्युपेक्षणादेरर्णविधानस्येक्षणात् । अथ द्वितीयस्य, तदा तदभावस्याग्दृिशां पुरुषेष्वपि समानत्वात् तेषामपि कारणावैकल्यस्यासिद्धिप्रसङ्गः, सर्वसम्बन्धिनस्तु प्रत्यक्षस्यासर्वविदा सत्त्वेनासत्त्वेन [वा] क्वचिन्निश्चेतुमशक्यत्वात् तदभावेन प्रकृतहेतोरसिद्धतेत्यनुद्घोष्यमेव । अथानुमानस्य, तदप्यसत्, तदभावस्य पुरुषेष्वपि समानत्वात्, न ह्यर्वाग्दृशां स्त्रीषु पुरुषेषु वा तत्त्वतस्तदव्यभिचारि लिङ्गमस्ति येनानुमानं स्यात् । अथास्त्येव पुरुषेष्वनुमानं, तथाहि - यदुत्कर्षापकर्षाभ्यां यस्यापकर्षोत्कर्षों तस्यात्यन्तापकर्षे तदत्यन्तोत्कर्षवदृष्टं, यथाऽभ्रपटलापगमे सवितृप्रकाशः, रागाद्युत्कर्षापकर्षाभ्यामपकर्षोत्कर्षवच्च चारित्रादि, न च रागाद्यपचयप्रकर्षस्यासम्भवो यतो यत्प्रकृष्यमाणहानिकं तत्क्वचित्सम्भविहानिप्रकर्षनिष्ठमपि दृष्टं, यथा हेमनि कालिकाकिट्टादि, प्रकृष्यमाणहानयश्च रागादयः, तथैव तेषां प्राणिषु प्रतीतत्वात्, नन्वेतत् स्त्रीष्वपि समानमिति । नाप्यागमस्य, तस्य प्रस्तुतस्यापि साक्षात् स्त्रीनिर्वाणाभिधायित्वेनार्थतस्तत्कारणावैकल्यसाधकत्वात् । न च 'स्त्रीशब्दस्यान्यार्थत्वं परिकल्पनीयम् । तद्धि लोकरूढितः, आगमपरिभाषातो वा भवेत् ? न तावल्लोकरूढितः, लोके हि यस्मिन्नर्थे यः शब्दोऽन्वयव्यतिरेकाभ्यां वाचकत्वेन दृश्यते स तस्यार्थो यथा गवादिशब्दानां सास्नादिमदादयः, न च स्त्रीशब्दस्य स्तनादिमदाकारमर्थमन्तरेणान्यस्यान्वयव्यतिरेकाभ्यां वाच्यत्वेन प्रतीतिरस्ति, उक्तं च - " स्तन-जघनादिव्यङ्गये स्त्रीशब्दोऽर्थे न तं विहायैषः । दृष्ट: क्वचिदन्यत्र त्वग्निर्माणवकवद् गौणः । [स्त्रीनिर्वाण० ४५ ] इति । नाप्यागमपरिभाषातः, यतो नागमे क्वचित् स्त्रीशब्दस्य परिभाषितोऽर्थो यथा ३व्याकरणे "वृद्धिरादैच्" [पा. १-१-१] इति वृद्धिशब्दस्यादैचौ । दृश्यते चागमेऽपि लोकरूढ एवार्थे स्त्रीशब्द: " इत्थीओ जंति छठ्ठि" [ ] इत्यादौ । न च तत्राप्यर्थान्तरपरिकल्पना, बाधकं विना तदनुपपत्तेः, उक्तं च - १. तु०-पृ० ३०-३१॥ २. पृ० ३२॥ ३. तु० -पृ० ३२॥ ४. तु०-पृ० ३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146