Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 105
________________ स्त्रीनिर्वाणप्रकरणे " परिभाषितो न शास्त्रे मनुजीशब्दोऽथ लौकिकोऽधिगतः । अस्ति च न तत्र बाधा स्त्रीनिर्वाणं ततो न कुतः ॥" [स्त्रीनिर्वाण० ४५] __ अथ दृष्ट एवागमे पुरुषाभिलाषात्मनि वेदाख्ये भावे स्त्रीशब्दः, इदमपि कुतो निश्चितम् ? किं तावत् 'स्त्रीशब्दः' इतिशब्दश्रवणमात्रात् स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानतो वा? न तावत् स्त्रीवेद इति श्रवणमात्रत इति युक्तम्, यदीह स्त्री चासौ वेदश्च स्त्रीवेद इति समानाधिकरणसमासो भवेत् तदा स्त्रीशब्दस्यार्थान्तरे वृत्तिर्भवेत्, तत्सद्भावश्च बाधकाभावेन कल्प्येत समासान्तराभावेन वा ? न तावद् बाधकाभावेन, तत्र हि स्त्रीशब्दस्य पुरुषाभिलाषात्मको भाव एवार्थो भवेत्, तथा च स्त्रीनिर्वाणसूत्रे किं स एव साक्षादर्थस्तदुपलक्षितं वा शरीरं? यदि स एव, तदा कि तदैव तद्भावो विवक्ष्यते भूतपूर्वगत्या वा ? तत्र यदि तदैव, तदा निर्वाणावस्थायामपि वेदसम्भवः । न चैतदागमिकम् । अथ भूतपूर्वगत्या, तदा देवादीनामपि निर्वाणप्राप्तिः, तथा च “सुरणारएसु चत्तारि होति" [पंचसं० ४-१०] इत्याद्यागमविरोधः, तेष्वपि भूतपूर्वगत्या चतुर्दशगुणस्थानसम्भवात् । अथ तदुपलक्षितं [वा] पुरुषशरीरम्, तदाऽसौ तदुपलक्षणं तत्र नियतवृत्तिरनियतवृत्तिर्वा ? यदि नियतवृत्तिस्तदाऽऽगमविरोधः, परिवर्तमानतयैव पुरुषशरीरे वेदोदयस्य तत्राभिधानात्, न चानुभवोऽप्येवमस्ति । अथानियतवृत्तिः, कथमसौ तदुपलक्षणम् ? अथैवंरूपमपि गृहादिषु काकाद्युपलक्षणमीक्ष्यत इत्यत्रापि तथोच्यते, एवं सति स्त्रीशरीरेऽपि कदाचित् पुरुषवेदस्योदयसम्भवात् स्त्रीणामपि निर्वाणापत्तिः, यथा हि पुरुषाणां भावतः स्त्रीत्वमेवं स्त्रीणामपि भावतः पुरुषत्वसम्भवोऽस्ति; भाव एव च मुख्यं मुक्तिकारणम्, तथा च यद्यप्रकृष्टेनापि स्त्रीत्वेन पुरुषाणां निर्वाणमेवमुत्कृष्टेन भावपुरुषत्वेन स्त्रीणामपि किं न निर्णाणम् ? इति । न च समासान्तरासम्भवेन स्त्रीवेद इत्यत्र समानाधिकरणसमासकल्पनम्, स्त्रिया वेदः स्त्रीवेद इति षष्ठीसमासस्यापि सम्भवात् । न चास्य स्त्रीशरीर-पुरुषाभिलाषात्मकवेदयोः सम्बन्धाभावेनायुक्तत्वमिति वाच्यम्, यतस्तयोः सम्बन्धाभावः किं भिन्नकर्मोदयरूपत्वेन, पुरुषवत् स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन वा ? न तावद् भिन्नकर्मोदयरूपत्वेन, भिन्नकर्मोदयरूपाणामपि 'पञ्चेन्द्रियजात्यादीनां देवगत्यादीनां च सदा सम्बन्धदर्शनात् । नापि पुरुषवत् स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन, इयं हि पुरुषाप्राप्तौ स्ववेदोदयादपि संभवत्येव, उक्तं च - १. पृ० ३३ ॥ २. तु०-पृ० ३४॥ ३. पृ० १४ टि० २॥ ४. तु० -पृ० ३४॥ ५. तु० -पृ० ३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146