Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 98
________________ द्वितीयं परिशिष्टम् पर्याप्तिसंपन्नेन तथाविधक्लिष्टपरिणामवता पुरुषेण. व्यभिचारात् । न च यत्र अतिशुभतरः परिणामस्तत्रापि अशुभतरपरिणामेन भाव्यमित्यत्रापि प्रतिबन्धः, तथाविधयोगिना व्यभिचारात् । किञ्च, स्त्रीणां सप्तमनरकपृथ्वीप्राप्तिनिबन्धनकर्मबीजाध्यवसायाभावः कुतः प्रतिपन्न: ? आप्तागमात् इति चेत्, अशेषकर्मशैलवज्राशनिभूतशुभाध्यवसायसद्भावोऽपि तत एव अभ्युपगन्तव्यः । न हि अतीन्द्रिये एवंविधेऽर्थे अस्मदादेरर्वाग्दृशः आप्तागमात् ऋते अन्यत् प्रमाणमस्ति । न च दृष्टष्टाविरोध्याप्तवचनमसत्तर्कानुसारिजातिविकल्पैर्बाधामनुभवति तेषां प्राप्ताऽप्राप्तव्यापादकमतंगजविकल्पवद् अवस्तुसंस्पर्शित्वात् । उक्तं च भर्तृहरिणा -- " अतीन्द्रियानसंवेद्यान् पश्यन्त्यारेण चक्षुषा । __ ये भावान् वचनं तेषां नानुमानेन बाध्यते" ।। [वाक्यप० १-३८] न च अत्र वस्तुनि आगमनिरपेक्षमनुमानं प्रवर्तितुमुत्सहते, पक्षधर्मादेलिङ्गरूपस्य प्रमाणान्तरतः प्रतिपत्तुमशक्तेः, प्रतिपत्तौ वा साध्यस्यापि प्रतिबन्धग्राहिणा प्रमाणेन प्रतिपत्ते कान्ततोऽतीन्द्रियता भवेत् । आगमानुसारि चानुमानं प्रकृते वस्तुनि संवादकृदेव न बाधकमिति प्रदर्शितम् । न च आप्तवचनं स्त्रीनिर्वाणप्रतिपादकमप्रमाणम् सप्तमनरकप्राप्तिप्रतिषेधकं प्रमाणमिति वक्तव्यम् उभयत्र आप्तप्रणीतत्वादेः प्रामाण्यनिबन्धनस्य अविशेषात् । न च एकमाप्तप्रणीतमेव न भवति, इतरत्रापि अस्य समानत्वान् पूर्वापरोपनिबद्धाशेषदृष्टादृष्टप्रयोजनार्थप्रतिपादकाऽवान्तरवाक्यसमूहात्मकैकमहावाक्यरूपतया अर्हदागमस्य एकत्वात् तथा चान्तरवाक्यानां केषांचिद् अप्रामाण्ये सर्वस्यापि आगमस्य अप्रामाण्यप्रसक्तेः अङ्गदुष्टत्वे तदात्मकाङ्गिनोपि दुष्टत्वापत्तेः । न च प्रदर्शितवाक्यात्मकः सर्वज्ञप्रणीतागमत्वेन अस्मान् प्रति असिद्ध इति वक्तव्यम् नास्तिक-मीमांसकान् प्रति पुरुष-निर्वाणावेदकस्यापि तत्प्रणीतत्वेन असिद्धेः । या च तान् प्रति तस्य तत्प्रणीतत्वावेदिका युक्तिः सा इतरत्रापि समाना पूर्वापरैकवाक्यत्व-दृष्टादृष्टाबाधितार्थत्वादेरविशेषात् । अथ स्त्रीणां घातिकर्मक्षयनिमित्ताद्यशुक्लध्यानद्वयस्यासंभवाद् न निर्वाणप्राप्तिः संभविनी, ननु कुतस्तद्वयस्य तत्राभावगतिः ? पूर्वधरस्यैव तयोः सद्भावात् “ आये पूर्वविदः" [तत्त्वार्थ० ९-३९] इतिवचनप्रामाण्यात् । न च पूर्वधरत्वं तासां तदनधिकारित्वादिति चेत्, तहि प्राक्तनभवानधीतपूर्वाणां वर्तमानतीर्थाधिपत्यादीनामपि न तद् भवेत्, तदध्ययनासंभवात् आद्यशुक्लध्यानद्वयासंभवतः तन्निमित्तघातिकर्मक्षयसमुद्भताशेषतत्त्वावबोधस्वभावकेवलज्ञानाभावे न मुक्तिश्रीसंगतिः स्यादिति अनिष्टापत्तिः । अथ शास्त्रयोगागम्यसामर्थ्ययोगावसेयभावेषु अतिसूक्ष्मेष्वपि तेषां विशिष्टक्षयोपशम-वीर्यविशेषप्रभवप्रभावयोगात् पूर्वधरस्येव बोधातिरेकसद्भावाद् आद्य शुक्लध्यानद्वयप्राप्तेः कैवल्यावाप्तिक्रमेण मुक्त्यवाप्तिरिति न दोषः तदध्ययनमन्तरेणापि विशिष्टक्षयोपशमसमुद्भतज्ञानात् पूर्ववित्त्वसंभवात् तर्हि निर्ग्रन्थीनामपि एवं द्वितयसंभवे न कञ्चिद् दोषमुत्पश्यामः, अभ्युपगमनीयं चैतत्, अन्यथा मरुदेवीस्वामिनीप्रभृतीनां जन्मा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146