________________
द्वितीयं परिशिष्टम् पर्याप्तिसंपन्नेन तथाविधक्लिष्टपरिणामवता पुरुषेण. व्यभिचारात् । न च यत्र अतिशुभतरः परिणामस्तत्रापि अशुभतरपरिणामेन भाव्यमित्यत्रापि प्रतिबन्धः, तथाविधयोगिना व्यभिचारात् । किञ्च, स्त्रीणां सप्तमनरकपृथ्वीप्राप्तिनिबन्धनकर्मबीजाध्यवसायाभावः कुतः प्रतिपन्न: ? आप्तागमात् इति चेत्, अशेषकर्मशैलवज्राशनिभूतशुभाध्यवसायसद्भावोऽपि तत एव अभ्युपगन्तव्यः । न हि अतीन्द्रिये एवंविधेऽर्थे अस्मदादेरर्वाग्दृशः आप्तागमात् ऋते अन्यत् प्रमाणमस्ति । न च दृष्टष्टाविरोध्याप्तवचनमसत्तर्कानुसारिजातिविकल्पैर्बाधामनुभवति तेषां प्राप्ताऽप्राप्तव्यापादकमतंगजविकल्पवद् अवस्तुसंस्पर्शित्वात् । उक्तं च भर्तृहरिणा --
" अतीन्द्रियानसंवेद्यान् पश्यन्त्यारेण चक्षुषा । __ ये भावान् वचनं तेषां नानुमानेन बाध्यते" ।। [वाक्यप० १-३८]
न च अत्र वस्तुनि आगमनिरपेक्षमनुमानं प्रवर्तितुमुत्सहते, पक्षधर्मादेलिङ्गरूपस्य प्रमाणान्तरतः प्रतिपत्तुमशक्तेः, प्रतिपत्तौ वा साध्यस्यापि प्रतिबन्धग्राहिणा प्रमाणेन प्रतिपत्ते कान्ततोऽतीन्द्रियता भवेत् । आगमानुसारि चानुमानं प्रकृते वस्तुनि संवादकृदेव न बाधकमिति प्रदर्शितम् । न च आप्तवचनं स्त्रीनिर्वाणप्रतिपादकमप्रमाणम् सप्तमनरकप्राप्तिप्रतिषेधकं प्रमाणमिति वक्तव्यम् उभयत्र आप्तप्रणीतत्वादेः प्रामाण्यनिबन्धनस्य अविशेषात् । न च एकमाप्तप्रणीतमेव न भवति, इतरत्रापि अस्य समानत्वान् पूर्वापरोपनिबद्धाशेषदृष्टादृष्टप्रयोजनार्थप्रतिपादकाऽवान्तरवाक्यसमूहात्मकैकमहावाक्यरूपतया अर्हदागमस्य एकत्वात् तथा चान्तरवाक्यानां केषांचिद् अप्रामाण्ये सर्वस्यापि आगमस्य अप्रामाण्यप्रसक्तेः अङ्गदुष्टत्वे तदात्मकाङ्गिनोपि दुष्टत्वापत्तेः । न च प्रदर्शितवाक्यात्मकः सर्वज्ञप्रणीतागमत्वेन अस्मान् प्रति असिद्ध इति वक्तव्यम् नास्तिक-मीमांसकान् प्रति पुरुष-निर्वाणावेदकस्यापि तत्प्रणीतत्वेन असिद्धेः । या च तान् प्रति तस्य तत्प्रणीतत्वावेदिका युक्तिः सा इतरत्रापि समाना पूर्वापरैकवाक्यत्व-दृष्टादृष्टाबाधितार्थत्वादेरविशेषात् । अथ स्त्रीणां घातिकर्मक्षयनिमित्ताद्यशुक्लध्यानद्वयस्यासंभवाद् न निर्वाणप्राप्तिः संभविनी, ननु कुतस्तद्वयस्य तत्राभावगतिः ? पूर्वधरस्यैव तयोः सद्भावात् “ आये पूर्वविदः" [तत्त्वार्थ० ९-३९] इतिवचनप्रामाण्यात् । न च पूर्वधरत्वं तासां तदनधिकारित्वादिति चेत्, तहि प्राक्तनभवानधीतपूर्वाणां वर्तमानतीर्थाधिपत्यादीनामपि न तद् भवेत्, तदध्ययनासंभवात् आद्यशुक्लध्यानद्वयासंभवतः तन्निमित्तघातिकर्मक्षयसमुद्भताशेषतत्त्वावबोधस्वभावकेवलज्ञानाभावे न मुक्तिश्रीसंगतिः स्यादिति अनिष्टापत्तिः । अथ शास्त्रयोगागम्यसामर्थ्ययोगावसेयभावेषु अतिसूक्ष्मेष्वपि तेषां विशिष्टक्षयोपशम-वीर्यविशेषप्रभवप्रभावयोगात् पूर्वधरस्येव बोधातिरेकसद्भावाद् आद्य शुक्लध्यानद्वयप्राप्तेः कैवल्यावाप्तिक्रमेण मुक्त्यवाप्तिरिति न दोषः तदध्ययनमन्तरेणापि विशिष्टक्षयोपशमसमुद्भतज्ञानात् पूर्ववित्त्वसंभवात् तर्हि निर्ग्रन्थीनामपि एवं द्वितयसंभवे न कञ्चिद् दोषमुत्पश्यामः, अभ्युपगमनीयं चैतत्, अन्यथा मरुदेवीस्वामिनीप्रभृतीनां जन्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org