________________
स्त्रीनिर्वाणप्रकरणे न्तरेऽपि अनधीतपूर्वाणां न मुक्तिप्राप्तिर्भवेत् । न चासौ तेषामसिद्धा सिद्धप्राभृतादिग्रन्थेषु गृहिलिङ्गसिद्धानां प्रतिपादनात् । न च ते अप्रमाणम्, सर्वज्ञप्रणीतत्वेन तेषां प्रामाण्यस्य साधितत्वात् । अथ मायागारवादिभूयस्त्वाद् अबलानां न मुक्तिप्राप्तिः, न; तदा तासां तद्भयस्त्वासंभवात्, प्राक् तु पुरुषाणामपि तत्संभवोऽविरुद्धः । अथ अल्पसत्त्वाः क्रुराध्यवसायाश्च ताः इति न मुक्तिभाजः, न; सत्त्वस्य कार्यगम्यत्वात्, तस्य च तासु दर्शनात् अल्पसत्त्वत्वासिद्धिः । दृश्यन्ते हि असदभियोगादौ तृणवत् ताः प्राणपरीत्यागं कुर्वाणाः परीषहोपसर्गाभिभवं चाङ्गीकृतमहाव्रता विदधानाः । क्रूराध्यवसायत्वं दृढप्रहारिप्रभृतीनां प्रागवस्थायां तद्भवे विद्यमानमपि न मुक्तिप्राप्तिप्रतिबन्धकम्, तदवस्थायां तु तस्य तास्वपि अभाव एव ।।
अथ लोकवद् लोकोत्तरेऽपि धर्मे पुरुषस्य उत्तमत्वात् मुक्तिप्राप्तिः न स्त्रीणाम् अनुत्तमत्वात्, न; अन्यगुणापेक्षाऽनुत्तमत्वस्य मुक्तिप्राप्त्यप्रतिबन्धकत्वात् अन्यथा तीर्थकृद्गुणापेक्षया गणधरादेरपि अनुत्तमत्वात् मुक्तिप्राप्त्यभावो भवेत् । अथ अशेषकर्मक्षयनिबन्धनस्य अध्यवसायस्य गणधरादिषु तीर्थकृदपेक्षया तुल्यत्वात् अयमदोषः, समानमेतद् अबलास्वपि तथाविधयोग्यतामापन्नासु । अथ महाव्रतस्थपुरुषावन्द्यत्वात् न तासां मुक्त्यवाप्तिस्तर्हि गणधरादेरपि अर्हदवन्द्यत्वात् न मुक्त्यवाप्तिः स्यात् । अथ
"तित्थपणामं काउं" [आवश्यकनि० समवस० गा०४५] इत्याद्यागमप्रामाण्यात् प्रथमगणधरस्य 'तीर्थ 'शब्दाभिधेयत्वात् तदवन्द्यत्वं तस्यासिद्धं तर्हि चातुर्वर्ण्यश्रमणसंघस्यापि 'तीर्थशब्दवाच्यत्वान् तत्र तु तासामन्तर्भावात् महाव्रतस्थपुरुषावन्द्यत्वं तासामपि असिद्धम् । तन्न युक्त्यागमाभ्यां तासां मुक्तिप्राप्त्यभावः प्रतिपत्तुं शक्यः । तत्सद्भावस्तु प्रदर्शितागमात् युक्तितश्च प्रतीयत एव, तथाहि -विमत्यधिकरणभावापन्नाः स्त्रियो मुक्तिभाजः, अवाप्ताशेषकर्मक्षयनिबन्धनाध्यवसायत्वात्, उभयाभिमतगणधरादिपुरुषवत्, इत्याद्यागम-युक्तिगर्भमनुमानं निर्दोषं युक्तिशब्दवाच्यं समस्त्येव ।'-पृ० ७५१-७५४ [गुजरात विद्यापीठ प्रकाशित ॥
वादिवेताल श्री शान्तिसूरिविरचितायाम् उत्तराध्ययनसूत्र[३६-४९]बृहद्वृत्ती
स्त्रीनिर्वाणसम्बन्धिनी चर्चा - "इह च ये स्त्रीनिर्वाणं प्रति विप्रतिपद्यन्ते त एवं वाच्याः - इह खलु यस्य यत्रासम्भवो न तस्य तत्र कारणावैकल्यम्, यथा सिद्धशिलायां शाल्यङ्करस्य, अस्ति च तथाविध
१. तु०-पृ० २७॥ २. तु०-पृ० २८, १८ ॥ ३. तु० -पृ. २५-२६॥ ४. तुलना-पृ० १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org