________________
द्वितीयं परिशिष्टम् स्त्रीषु मुक्तेः कारणावैकल्यम् । न चायमसिद्धो हेतुः, यतोऽस्यासिद्धत्वं किं स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वेन, आहोस्विनिर्वाणस्थानाद्यप्रसिद्धत्वेन, निर्वाणसाधकप्रमाणाभावेन वा ? तत्र यदि तावत् पुरुषेभ्योऽपकृष्यमाणत्वेन तदा तत् किं सम्यग्दर्शनादिरत्नत्रयाभावेन, विशिष्ट - सामर्थ्यासत्त्वेन, पुरुषानभिवन्द्यत्वेन, स्मारणाद्यकर्तृत्वेन, अमहद्धिकत्वेन, मायादिप्रकर्षवत्त्वेन वेति विकल्पाः । तत्र न तावत् सम्यग्दर्शनादिरत्नत्रयस्याभावेन, यतस्तस्यासौ किमविशिष्टस्य प्रकर्षपर्यन्तप्राप्तस्य वा ?, यद्यविशिष्टस्य तदा किमियं चारित्रस्यासम्भवेन उत ज्ञानदर्शनयोः, त्रयाणां वा ? यदि चारित्रस्यासम्भवेन तदा सोऽपि किं सचेलत्वेन, स्त्रीत्वस्य चारित्रविरोधित्वेन, मन्दसत्त्वतया वा ?, यदि सचेलत्वेन तदा चेलस्यापि चारित्राभावहेतुत्वं परिभोगमात्रेण, परिग्रहरूपत्वेन वा ? यदि परिभोगमात्रेण तदा तत्परिभोगोऽपि तासां तत्परित्यागाशक्तत्वेन गुरूपदिष्टत्वेन वा ? न तावत् तत्परित्यागाशक्तत्वेन, यतः प्राणेभ्यो नापरं प्रियम्, अथ च तानपि त्यजन्त्य एता दृश्यन्ते । अथ गुरूपदिष्टत्वेन तथा सति गुरूणामपि चारित्रोपकारित्वेन तासां तदुपदेशः अन्यथा वा ? यदि चारित्रोपकारित्वेन किं न पुरुषाणामपि ? अथाबला एवैता बलादपि पुरुषैः परिभुज्यन्त इति तद्विना तासां चारित्रबाधासम्भवो न पुरुषाणामिति न तेषां तदुपदेशः, उक्तं च -
" वस्त्रं विना न चरणं तासामित्यहतीच्यत, विनापि ।
पुंसामिति न्यवार्यत" [स्त्रीनिर्वाण० २२] इति ।
एवं सति न चेलाच्चारित्राभावः तदुपकारित्वात्तस्य । तथाहि यद् यस्योपकारि न तत् तस्याभावहेतुः, यथा घटस्य मृत्पिण्डादि, उपकारि चोक्तनीत्या चारित्रस्य चेलम् । अथान्यथेति पक्षः, अयमपि न क्षमो, यतोऽसौ चेलस्य चारित्रं प्रत्यौदासीन्येन बाधकतया वा ? न चेदमस्मिन्नभयमप्यस्ति, पुरुषाभिभवरक्षकत्वेन तस्य तासु तदुपकारितया अनन्तरमेवोक्तत्वात् । नापि चेलस्य परिग्रहरूपत्वेन चारित्राभावहेतुत्वम्, यतो मूव परिग्रह इतीहैव परीषहाध्ययने निर्णीतम्, यदि च चेलस्य परिग्रहरूपता तदा तथाविधरोगोपसर्गादिषु पुरुषाणामपि चेलसम्भवे चारित्राभावेन मुक्त्यभावः स्यात् । उक्तं च -
" अर्शोभगन्दरादिषु गृहीतचीरो यतिन मुच्येत । उपसर्गे वा चीरे" ["स्त्रीनिर्वाण० २३ ] इत्यादि ।
१. तु० - पृ० १८॥ २. तु० -पृ. १८॥ ३. पृ० २२॥ ४. पृ० २२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org