________________
स्त्रीनिर्वाणप्रकरणे
त्वाभावोऽपि तासां कुतः सिद्धः येन साध्यविकलो दृष्टान्तो न स्यात् ? सर्वज्ञप्रणीतागमात् इति चेत्, तत एव मुक्तिभाक्त्वस्यापि तासां सिद्धिरस्तु, न हि एकवाक्यतया व्यवस्थितः दृष्टेष्टादिषु बाधामननुभवन् आप्तागमः क्वचित् प्रमाणं क्वचिन्नेति अभ्युपगन्तुं प्रेक्षापूर्वकारिणा शक्यः । अथ विवादगोचरापन्नाऽबला अशेषकर्मक्षयनिबन्धनाध्यवसायविकला, अविद्यमानाऽधःसप्तमनरकप्राप्त्यविकलकारणकर्मबीजभूताध्यवसानत्वात्, यस्तु अशेषकर्मपरिक्षयनिबन्धनाध्यवसायविकलो न भवति नासौ अविद्यमानाधःसप्तमनरकप्राप्त्यविकलकारणकर्मबीजभूताध्यवसानः, यथोभयसंप्रतिपत्तिविषयः पुरुष इति वैधर्म्यदृष्टान्तः । असदेतत् यतोऽत्रापि प्रयोगे साध्यसाधनयोः प्रतिबन्धाभावान्नातो हेतोविवक्षितसाध्यसिद्धिः । तथाहि-यथोक्ताध्यवसानं निवर्तमानमबलातः अशेषकर्मक्षयाध्यवपायनिवर्तकं कारणं वा भवद् भवेत् व्यापकं वा ? अन्यस्य निवृत्तावपि अपरनिवृत्तेरवश्यंभावाभावात्, अन्यथा अश्वनिवृत्तावपि गवादेनियमेन निवृत्तिप्रसक्तेः । आह च न्यायवादी
" तस्मात् तन्मात्रसंबन्धः स्वभावो भावमेव वा ।
निवर्तयेत् कारणं वा कार्यमव्यभिचारतः” ॥ [प्रमाणवा० २-२३ ] इति । तत्र न तावत् कारणं यथोक्ताध्यवसानमशेषकर्मक्षयाध्यवसानस्य येन तन्निवृत्त्या तस्यापि निवृत्तिः स्यात् । कारणत्वे वा यत्र अशेषकर्मक्षयाध्यवसानं योगिनि संभवति तत्र अधःसप्तमनरकपृथिवीप्राप्त्यवश्यकारणस्य बीजभूताध्यवसानसद्भावात् कार्यस्य कारणाव्यभिचारित्वात् तस्य नरकप्राप्तिसद्भाव इति अनिष्टापत्तिः । न च योगिनि अशेषकर्मक्षयनिबन्धनमध्यवसानं जनयदपि नरकप्राप्तिनिबन्धनकर्मबीजभूतमध्यवसानं नरकप्राप्तिलक्षणं स्वकार्यं न जनयतीति वाच्यम्, अविकलकारणस्य अवश्यंतया स्वकार्यनिर्वर्तकत्वात् अन्यथा अविकलकारणत्वायोगात् । न च यदेव तथाभूतकर्मनिवर्तनसमर्थं तदेव तत्क्षयहेत्वध्यवसायनिबन्धनं भवति, भावाभावयोरेकस्मिन्नेकदा विरोधात्, तन्निवर्तकस्य हेतोः स्वभावान्तरमप्राप्नुवतस्तन्निर्व (निव )र्तकत्वविरोधात्, न हि यदेव यदैवाङ्गलिद्रव्यस्य ऋजुत्वोत्पादकम् तदेव तदैव तस्य विनाशकं संभवति एकनिमित्तयोरेकदा भावाभावयोविरोधात् । नापि तत् तस्य व्यापकम् येन ततस्तन्निवर्तमानं तदपि आदाय निवर्तेत, व्यापकत्वे वा यत्र अशेषकर्मक्षयनिबन्धनाध्यवसायसद्भावस्तत्र व्यापकस्य अवश्यंभावित्वान् अन्यथा तस्य तद्व्यापकत्वायोगात् योगिनस्तदध्यवसायवतोऽधःसप्तमनरकप्राप्तिप्रसङ्गोऽनिष्टस्तदवस्थ एव स्यात् । नच यत्र क्लिष्टतराध्यवसायसद्भविस्तत्र अतिशुभतराध्यवसायेन भाव्यमिति प्रतिबन्धसंभवः, तन्दुलमत्स्येन व्यभिचारात् । न च मनुष्यजातियोगित्वे सति अव्यभिचारः, उत्तमसंहननेन चारित्रप्राप्तिकालार्वाक्समयभाविना सर्व
१. तु० -पृ० १५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org