________________
द्वितीयं परिशिष्टम
"अट्ठारस पुरिसेसुं वीसं इत्थीसु" [
] इत्याद्यागमेन विधानाच्च । विशेषाप्रतिषेधस्य ज्ञेषाभ्यनुज्ञापरत्वाच्च न तासां भगवत्प्रतिपादितनैग्रन्थ्यनिमित्ताऽविकलचारित्रप्राप्त्यनुपपत्तिः । अथ तथाभूतचारित्रवत्त्वेऽपि न तासां तद्भाक्त्वमिति साध्यार्थः, तथापि अनुमानबाधितत्वं पक्षस्य दोषः । तथाहि - यद् अविकलकारणं तद् अवश्यमुत्पत्तिमत् यथा अन्त्यावस्थाप्राप्तबीजादिसामग्रीकोऽङ्कुरः, अविकलकारणश्च तस्यामवस्थायां सीमन्तिनीमुक्त्याविर्भावः इति कथं न पक्षस्य अनुमानबाधा ? अथ स्त्रीवेदपरिक्षयाभावात् न अविकलचारित्रप्राप्तिस्तासामिति न मुक्तिभाक्त्वम् तर्हि पुरुषस्यापि पुरुषवेदापरिक्षयात् न अविकलचारित्रप्राप्तिरिति न मुक्तिप्राप्तिर्भवेत् । अथ तत्परिक्षये शैलेश्यवस्थाभाविचारित्रप्राप्तिमतः पुरुषस्य मुक्तिप्राप्तिर्न प्राक् तहि सीमन्तिन्या अपि एवं मुक्तिप्राप्तौ न कश्चिद् दोषः संभाव्यते । अथ अस्या स्त्रीवेदपरिक्षयसामर्थ्यानुपपत्ते यं दोषः, ननु तत्परिक्षयसामर्थ्याभावस्तस्याः कुतः सिद्धः ? आगमात् इति चेत्, न; तस्य तथाभूतस्य द्वादशाङ्गयामनुपलब्धेः । तत्परिक्षयसामर्थ्यप्रतिपादकस्यापि तस्य अनुपलब्धिरिति चेत्, न;
“सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरितित्थे अतित्थयरिसिद्धा असंखेज्जगुणा"[ ] इत्यादिसिद्धप्राभृतागमस्यानेकस्य सामर्थ्यवृत्त्या सीमन्तिनीनां स्त्रीवेदपरिक्षयसामर्थ्यप्रतिपादकस्य उपलम्भात् । नहि सर्वकर्मानीकनायकरूपमोहनीयकर्माङ्गभूतस्त्रीवेदपरिक्षयमन्तरेण तासां मुक्तिप्राप्तिरिति मुक्तिसद्भावावेदकमेव वचस्तासां सामर्थ्यावेदकं सिद्धम । अथ स्त्रीत्वादेव न तासां तत्परिक्षयसामर्थ्यम्, न; स्त्रीत्वस्य तत्परिक्षयसामर्थ्येन विरोधासिद्धेः, न हि अविकलकारणस्य तत्परिक्षयसामर्थ्यस्य स्त्रीत्वसद्भावादभावः क्वचिदपि निश्चितः येन अग्नि-शीतयोरिव सहानवस्थानविरोधस्तयोः सिद्धो भवेत् । नापि भावाभावयोरिव अनयोरन्योन्यव्यवच्छेदरूपता अवगता येन परस्परपरिहारस्थितलक्षणविरोधसिद्धिर्भवेत् । न चाविरुद्ध विधिरन्यस्याभावावेदकः अतिप्रसङ्गात् । तन्न स्त्रीत्वादपि तासां तत्परिक्षयसामर्थ्यानुपपत्तिसिद्धिः । प्रत्यक्षस्य तु इन्द्रियजस्य अतीन्द्रियपदार्थभावाभावविवेचने अनधिकार एवेति नातोऽपि तत्परिक्षयसामर्थ्यानुपपत्तिसिद्धिस्तासाम् । अतोऽनेकदोषदुष्टत्वान्न प्रकृतपक्षः साधनमर्हति । ( स्त्रीत्वात्' इति हेतुरपि यदि ‘उदितस्त्रीवेदत्वात् ' इति उपात्तस्तदाऽसिद्धः मुक्तिप्राप्तिप्राक्तनसमयादिषु स्त्रीवेदोदयस्य तासामसंभवात् अनिवृत्तिगुणस्थान एव तस्य परिक्षयात् । ‘परिक्षीणस्त्रीवेदत्वात् ' इति च हेतुर्विपर्ययव्याप्तत्वाद् विरुद्धः । न च 'स्त्रीत्वात्' इत्यस्य परिक्षीणवेदत्वात्' इत्ययमर्थः अत्रार्थे प्रकृतशब्दस्य अरूढत्वात् । अथ ' स्त्र्याकारयोगित्वात् स्त्रीत्वात् ' इति हेत्वर्थस्तदा विपर्यये बाधकप्रमाणाभावात् संदिग्धविपक्षव्यावृत्तिकत्वाद् अनैकान्तिको हेतु : । चतुर्दशपूर्वसंवित्संबन्धि
..
१. तु०-पृ० १३ ॥ २. तु० -पृ० ३१-३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org