________________
स्त्रीनिर्वाणप्रकरणे
प्रकृतरौद्रध्यानफलस्य सप्तमनरकगमनलक्षणस्य भावेन युगपत् सत्तया, 'अनिष्टप्रसङ्गात्' परमपुरुषार्थोपघातरूपस्यानिष्टस्य प्रसङ्गात् । प्रतिबन्धसिद्धौ हि शिंशपात्वे इव वृक्षत्वं, धूम इव वा धूमध्वजः, प्रकृष्टशुभध्यानभावे स्वफलकारिण्यवश्यंभावी प्रकृतरौद्रध्यानभावः स्वकार्यकारी स्वकार्यकारित्वाद्वस्तुनः स्वकार्यमाक्षिपन् कथमिव परमपुरुषार्थं नोपहन्यादिति ।
'श्रेणी'त्यादि । 'श्रेणिपरिणतौ तु' क्षपकश्रेणिपरिणामे पुनः वेदमोहनीयक्षयोत्तरकालं 'कालगर्भवत् ', काले प्रौढे ऋतुप्रवृत्त्युचिते उदरसत्त्व इव, ‘भावतो' द्वादशाङ्गार्थोपयोगरूपात्, न तु शब्दतोऽपि, “भावः' सत्ता द्वादशाङ्गस्य, 'अविरुद्धो' न दोषवान् । इदमत्र हृदयम् - अस्ति हि स्त्रीणामपि प्रकृतयुक्त्या केवलप्राप्तिः, शुक्लध्यानसाध्यं च तत्, ‘ध्यानान्तरिकायां शुक्लध्यानाद्यभेदद्वयावसान उत्तरभेदद्वयानारम्भरूपायां वर्तमानस्य केवलमुत्पद्यते' इति वचनप्रामाण्यात् । न च पूर्वगतमन्तरेण शुक्लध्यानाऽऽद्यभेदौ स्तः ‘आद्ये पूर्वविदः' [तत्त्वार्थ. ९-३९] इति वचनात्, दृष्टिवादश्च न स्त्रीणामिति वचनात्, अतस्तदर्थोपयोगरूपः क्षपकश्रेणिपरिणतौ स्त्रीणां द्वादशाङ्गभावः क्षयोपशमविशेषाददुष्ट इति ।"
श्री अभयदेवसूरिविरचितायां सन्मतितर्कवृत्तौ स्त्रीनिर्वाणसम्वन्धिनी चर्चा --
" अथ स्त्रियो मुक्तिभाजो न भवन्ति, स्त्रीत्वात्, चतुर्दशपूर्वसंविद्भागिन्य इव । अत्र यदि 'सर्वाः स्त्रियो मुक्तिभाजो न भवन्ति' इति साध्येत तदा सिद्धसाध्यता, अभव्यस्त्रीणां मुक्तिसद्भावानभ्युपगमात् । अथ ‘भव्या अपि तास्तद्भाजो न भवन्ति' इति साध्यते तदा अत्रापि सिद्धसाध्यता भव्यानामपि सर्वासां मुक्तिसंगानिष्टे:
"भव्वा वि ते अणंता सिद्धिपहं जे ण पावेंति" [इति] वचनप्रामाण्यात् । अथ अवाप्तसम्यग्दर्शना अपि ता न तद्भाजः इति पक्षः, अत्रापि सिद्धसाध्यता तदवस्थैव, प्राप्तोज्झितसम्यग्दर्शनानां तासां तद्भाक्त्वानिष्टेः । अथ अपरित्यक्तसम्यग्दर्शना अपि न तास्तद्भाजः तथापि सिद्धसाध्यता, अप्राप्ताऽविकलचारित्राणां सम्यग्दर्शनसद्भावेऽपि तत्प्राप्त्यनभ्युपगमात् । अथ अविकलचारित्रप्राप्तिरेव तासां न भवति, कुत एतत् ? यदि स्त्रीत्वात् पुरुषस्यापि सा न स्यात् पुरुषत्वात् । अथ पुरुषेसकलसावद्ययोगनिवृत्तिरूपा चित्तपरिणतिः स्वसंवेदनाध्यक्षसिद्धा स्वात्मनि अन्यैरनुमानादवसीयते, ननु सा स्त्रियां तथैव किं नावसीयते येन तत्र तस्याः स्वाग्रहावेशवशाद भाव: प्रतिपाद्यते। अथ तासां भगवता नैर्ग्रन्थ्यस्य अनभिधानाद् न तत्प्राप्तिः, असदेतत्, तासां तस्य भगवता --
"णो कप्पइ निग्गंथस्स णिग्गंथीए वा अभिन्नतालपलंबे पडिगाहित्तए" [बृहत्कल्प उ. १ सू. १] इत्याद्यागमेन बहुशः प्रतिपादनात् अयोग्यायाश्च प्रवज्याप्रतिपत्तिप्रतिषेधस्य --
१. तुलना--पृ० १९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org