________________
द्वितीयं परिशिष्टम् मतिः प्रतिषिद्धा, तन्निराचिकीर्षयाऽह - नातिक्रूरमतिः, सप्तमनरकायुनिबन्धनरौद्रध्यानाभावात् । तद्वत् प्रकृष्टशुभध्यानाभाव इति चेत्, न, तेन तस्य प्रतिबन्धाभावात्, तत्फलवद् इतरफलभावेनाऽनिष्टप्रसङ्गात् । अक्रूरमतिरपि रतिलालसाऽसुन्दरैव, तदपोहायाह - नो न शुद्धाचारा, कदाचित् शुद्धाचारापि भवति, औचित्येन 'परापकरणवर्जनाद्याचारदर्शनात् । शुद्धाचाराप्यशुद्धबोन्दिरसाध्वी, तदपनोदायाह - नो अशुद्धबोन्दिः, काचित् शुद्धतनुरपि भवति, प्राक्कआनुवेधतः संसञ्जनाद्यदर्शनात् कक्षास्तनादिदेशेषु । शुद्धबोन्दिरपि व्यवसायज्जिता निन्दितैव, तन्निरासायाह - नो व्यवसायज्जिता, काचित् परलोकव्यवसायिनी, ३शास्त्रात् तत्प्रवृत्तिदर्शनात् । सव्यवसायाप्यपूर्वकरणविरोधिनी विरोधिन्येव, तत्प्रतिषेधमाह - नो अपूर्वकरणविरोधिनी, अपूर्वकरणसम्भवस्य स्त्रीजातावपि प्रतिपादितत्वात् । अपूर्वकरणवत्यपि नवगुणस्थानरहिता नेष्टसिद्धये, [इति ] इष्टसिद्धयर्थमाह - नो नवगुणस्थानरहिता, तत्सम्भवस्य तस्याः प्रतिपादितत्वात्, नवगुणस्थानसंगतापि लब्ध्ययोग्या अकारणमधिकृतविधेः, इत्येतत्प्रतिक्षेपायाह - नायोग्या लब्धेः आमर्पोषध्यादिरूपायाः, कालौचित्येनेदानीमपि दर्शनात् । कथं द्वादशाङ्गप्रतिषेधः ? तथाविधविग्रहे ततो दोषात्, श्रेणिपरिणतौ तु कालगर्भवद् भावतो भावोऽविरुद्ध एव । लब्धियोग्याप्यकल्याणभाजनोपघातान्नाभिलषितार्थसाधनायालमित्यत आह - नाकल्याणभाजनम्, तीर्थकरजननात्, नातः परं कल्याणमस्ति । यत एवमतः कथं नोत्तमधर्मसाधिकेति ? उत्तमधर्मसाधिकैव । अनेन तत्तत्कालापेक्षयैतावद्गुणसम्पत्समन्वितैवोत्तमधर्मसाधिकेति विद्वांसः । केवलसाधकश्चायम्, सति च केवले नियमाद् मोक्षप्राप्तिरित्युक्तमानुषङ्गिकम् ।" - पृ० ४०१-४०६ [दिव्यदर्शन साहित्य समिति प्रकाशित]
अस्य ललितविस्तरांशस्य श्री मुनिचन्द्रसूरिविरचिता पञ्जिका --
'सप्तमे 'त्यादि, सप्तमनरकेऽतिक्लिष्टसत्त्वस्थाने आयुषो निबन्धनस्य रौद्रध्यानस्य तीव्रसंक्लेशरूपस्याभावात् स्त्रीणाम्, 'षष्ठी च स्त्रियः' इतिवचनात् ।
'तद्वत् ' प्रकृतरौद्रध्यानस्येव 'प्रकृष्टस्य' मोक्षहेतोः 'शुभध्यानस्य' शुक्लरूपस्य अभाव 'इति' एवं 'चेत्' अभ्युपगमो भवतः । अस्य परिहारमाह - 'न', नैवैतत् परोक्तम्, कुत इत्याह - 'तेन' प्रकृतरौद्रध्यानेन ‘तस्य' प्रकृतशुभध्यानस्य 'प्रतिबन्धाभावाद्,' अविनाभावायोगात् । तत्प्रतिबन्धसिद्धौ हि व्यापककारणयोवृक्षत्वधूमध्वजयोनिवृत्तौ शिशपाधूमनिवृत्तिवत् प्रकृतरौद्रध्यानाभावे प्रकृष्टशुभध्यानाभाव उपन्यसितुं युक्तः । न चास्ति प्रतिबन्धः, कुत इत्याह - 'तत्फलवत्', तस्य प्रकृष्टशुभध्यानस्य फलं मुक्तिगमनम्, तस्येव, 'इतरफलभावेन'
"परोपकरणार्जनाद्याचार दर्शनात" इति प्रत्यन्तरे पाठः।। २. "प्राक्कर्मानुरोधतः" इति प्रत्यन्तरे पाठः। ३. "शास्त्रादौ" इति प्रत्यन्तरे पाठः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org