Book Title: Stree Nirvan Kevalibhukti Prakarane Tika Author(s): Shaktayanacharya, Jambuvijay Publisher: Atmanand Jain SabhaPage 96
________________ द्वितीयं परिशिष्टम "अट्ठारस पुरिसेसुं वीसं इत्थीसु" [ ] इत्याद्यागमेन विधानाच्च । विशेषाप्रतिषेधस्य ज्ञेषाभ्यनुज्ञापरत्वाच्च न तासां भगवत्प्रतिपादितनैग्रन्थ्यनिमित्ताऽविकलचारित्रप्राप्त्यनुपपत्तिः । अथ तथाभूतचारित्रवत्त्वेऽपि न तासां तद्भाक्त्वमिति साध्यार्थः, तथापि अनुमानबाधितत्वं पक्षस्य दोषः । तथाहि - यद् अविकलकारणं तद् अवश्यमुत्पत्तिमत् यथा अन्त्यावस्थाप्राप्तबीजादिसामग्रीकोऽङ्कुरः, अविकलकारणश्च तस्यामवस्थायां सीमन्तिनीमुक्त्याविर्भावः इति कथं न पक्षस्य अनुमानबाधा ? अथ स्त्रीवेदपरिक्षयाभावात् न अविकलचारित्रप्राप्तिस्तासामिति न मुक्तिभाक्त्वम् तर्हि पुरुषस्यापि पुरुषवेदापरिक्षयात् न अविकलचारित्रप्राप्तिरिति न मुक्तिप्राप्तिर्भवेत् । अथ तत्परिक्षये शैलेश्यवस्थाभाविचारित्रप्राप्तिमतः पुरुषस्य मुक्तिप्राप्तिर्न प्राक् तहि सीमन्तिन्या अपि एवं मुक्तिप्राप्तौ न कश्चिद् दोषः संभाव्यते । अथ अस्या स्त्रीवेदपरिक्षयसामर्थ्यानुपपत्ते यं दोषः, ननु तत्परिक्षयसामर्थ्याभावस्तस्याः कुतः सिद्धः ? आगमात् इति चेत्, न; तस्य तथाभूतस्य द्वादशाङ्गयामनुपलब्धेः । तत्परिक्षयसामर्थ्यप्रतिपादकस्यापि तस्य अनुपलब्धिरिति चेत्, न; “सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरितित्थे अतित्थयरिसिद्धा असंखेज्जगुणा"[ ] इत्यादिसिद्धप्राभृतागमस्यानेकस्य सामर्थ्यवृत्त्या सीमन्तिनीनां स्त्रीवेदपरिक्षयसामर्थ्यप्रतिपादकस्य उपलम्भात् । नहि सर्वकर्मानीकनायकरूपमोहनीयकर्माङ्गभूतस्त्रीवेदपरिक्षयमन्तरेण तासां मुक्तिप्राप्तिरिति मुक्तिसद्भावावेदकमेव वचस्तासां सामर्थ्यावेदकं सिद्धम । अथ स्त्रीत्वादेव न तासां तत्परिक्षयसामर्थ्यम्, न; स्त्रीत्वस्य तत्परिक्षयसामर्थ्येन विरोधासिद्धेः, न हि अविकलकारणस्य तत्परिक्षयसामर्थ्यस्य स्त्रीत्वसद्भावादभावः क्वचिदपि निश्चितः येन अग्नि-शीतयोरिव सहानवस्थानविरोधस्तयोः सिद्धो भवेत् । नापि भावाभावयोरिव अनयोरन्योन्यव्यवच्छेदरूपता अवगता येन परस्परपरिहारस्थितलक्षणविरोधसिद्धिर्भवेत् । न चाविरुद्ध विधिरन्यस्याभावावेदकः अतिप्रसङ्गात् । तन्न स्त्रीत्वादपि तासां तत्परिक्षयसामर्थ्यानुपपत्तिसिद्धिः । प्रत्यक्षस्य तु इन्द्रियजस्य अतीन्द्रियपदार्थभावाभावविवेचने अनधिकार एवेति नातोऽपि तत्परिक्षयसामर्थ्यानुपपत्तिसिद्धिस्तासाम् । अतोऽनेकदोषदुष्टत्वान्न प्रकृतपक्षः साधनमर्हति । ( स्त्रीत्वात्' इति हेतुरपि यदि ‘उदितस्त्रीवेदत्वात् ' इति उपात्तस्तदाऽसिद्धः मुक्तिप्राप्तिप्राक्तनसमयादिषु स्त्रीवेदोदयस्य तासामसंभवात् अनिवृत्तिगुणस्थान एव तस्य परिक्षयात् । ‘परिक्षीणस्त्रीवेदत्वात् ' इति च हेतुर्विपर्ययव्याप्तत्वाद् विरुद्धः । न च 'स्त्रीत्वात्' इत्यस्य परिक्षीणवेदत्वात्' इत्ययमर्थः अत्रार्थे प्रकृतशब्दस्य अरूढत्वात् । अथ ' स्त्र्याकारयोगित्वात् स्त्रीत्वात् ' इति हेत्वर्थस्तदा विपर्यये बाधकप्रमाणाभावात् संदिग्धविपक्षव्यावृत्तिकत्वाद् अनैकान्तिको हेतु : । चतुर्दशपूर्वसंवित्संबन्धि .. १. तु०-पृ० १३ ॥ २. तु० -पृ० ३१-३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146