Book Title: Stree Nirvan Kevalibhukti Prakarane Tika Author(s): Shaktayanacharya, Jambuvijay Publisher: Atmanand Jain SabhaPage 97
________________ स्त्रीनिर्वाणप्रकरणे त्वाभावोऽपि तासां कुतः सिद्धः येन साध्यविकलो दृष्टान्तो न स्यात् ? सर्वज्ञप्रणीतागमात् इति चेत्, तत एव मुक्तिभाक्त्वस्यापि तासां सिद्धिरस्तु, न हि एकवाक्यतया व्यवस्थितः दृष्टेष्टादिषु बाधामननुभवन् आप्तागमः क्वचित् प्रमाणं क्वचिन्नेति अभ्युपगन्तुं प्रेक्षापूर्वकारिणा शक्यः । अथ विवादगोचरापन्नाऽबला अशेषकर्मक्षयनिबन्धनाध्यवसायविकला, अविद्यमानाऽधःसप्तमनरकप्राप्त्यविकलकारणकर्मबीजभूताध्यवसानत्वात्, यस्तु अशेषकर्मपरिक्षयनिबन्धनाध्यवसायविकलो न भवति नासौ अविद्यमानाधःसप्तमनरकप्राप्त्यविकलकारणकर्मबीजभूताध्यवसानः, यथोभयसंप्रतिपत्तिविषयः पुरुष इति वैधर्म्यदृष्टान्तः । असदेतत् यतोऽत्रापि प्रयोगे साध्यसाधनयोः प्रतिबन्धाभावान्नातो हेतोविवक्षितसाध्यसिद्धिः । तथाहि-यथोक्ताध्यवसानं निवर्तमानमबलातः अशेषकर्मक्षयाध्यवपायनिवर्तकं कारणं वा भवद् भवेत् व्यापकं वा ? अन्यस्य निवृत्तावपि अपरनिवृत्तेरवश्यंभावाभावात्, अन्यथा अश्वनिवृत्तावपि गवादेनियमेन निवृत्तिप्रसक्तेः । आह च न्यायवादी " तस्मात् तन्मात्रसंबन्धः स्वभावो भावमेव वा । निवर्तयेत् कारणं वा कार्यमव्यभिचारतः” ॥ [प्रमाणवा० २-२३ ] इति । तत्र न तावत् कारणं यथोक्ताध्यवसानमशेषकर्मक्षयाध्यवसानस्य येन तन्निवृत्त्या तस्यापि निवृत्तिः स्यात् । कारणत्वे वा यत्र अशेषकर्मक्षयाध्यवसानं योगिनि संभवति तत्र अधःसप्तमनरकपृथिवीप्राप्त्यवश्यकारणस्य बीजभूताध्यवसानसद्भावात् कार्यस्य कारणाव्यभिचारित्वात् तस्य नरकप्राप्तिसद्भाव इति अनिष्टापत्तिः । न च योगिनि अशेषकर्मक्षयनिबन्धनमध्यवसानं जनयदपि नरकप्राप्तिनिबन्धनकर्मबीजभूतमध्यवसानं नरकप्राप्तिलक्षणं स्वकार्यं न जनयतीति वाच्यम्, अविकलकारणस्य अवश्यंतया स्वकार्यनिर्वर्तकत्वात् अन्यथा अविकलकारणत्वायोगात् । न च यदेव तथाभूतकर्मनिवर्तनसमर्थं तदेव तत्क्षयहेत्वध्यवसायनिबन्धनं भवति, भावाभावयोरेकस्मिन्नेकदा विरोधात्, तन्निवर्तकस्य हेतोः स्वभावान्तरमप्राप्नुवतस्तन्निर्व (निव )र्तकत्वविरोधात्, न हि यदेव यदैवाङ्गलिद्रव्यस्य ऋजुत्वोत्पादकम् तदेव तदैव तस्य विनाशकं संभवति एकनिमित्तयोरेकदा भावाभावयोविरोधात् । नापि तत् तस्य व्यापकम् येन ततस्तन्निवर्तमानं तदपि आदाय निवर्तेत, व्यापकत्वे वा यत्र अशेषकर्मक्षयनिबन्धनाध्यवसायसद्भावस्तत्र व्यापकस्य अवश्यंभावित्वान् अन्यथा तस्य तद्व्यापकत्वायोगात् योगिनस्तदध्यवसायवतोऽधःसप्तमनरकप्राप्तिप्रसङ्गोऽनिष्टस्तदवस्थ एव स्यात् । नच यत्र क्लिष्टतराध्यवसायसद्भविस्तत्र अतिशुभतराध्यवसायेन भाव्यमिति प्रतिबन्धसंभवः, तन्दुलमत्स्येन व्यभिचारात् । न च मनुष्यजातियोगित्वे सति अव्यभिचारः, उत्तमसंहननेन चारित्रप्राप्तिकालार्वाक्समयभाविना सर्व १. तु० -पृ० १५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146