Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 95
________________ स्त्रीनिर्वाणप्रकरणे प्रकृतरौद्रध्यानफलस्य सप्तमनरकगमनलक्षणस्य भावेन युगपत् सत्तया, 'अनिष्टप्रसङ्गात्' परमपुरुषार्थोपघातरूपस्यानिष्टस्य प्रसङ्गात् । प्रतिबन्धसिद्धौ हि शिंशपात्वे इव वृक्षत्वं, धूम इव वा धूमध्वजः, प्रकृष्टशुभध्यानभावे स्वफलकारिण्यवश्यंभावी प्रकृतरौद्रध्यानभावः स्वकार्यकारी स्वकार्यकारित्वाद्वस्तुनः स्वकार्यमाक्षिपन् कथमिव परमपुरुषार्थं नोपहन्यादिति । 'श्रेणी'त्यादि । 'श्रेणिपरिणतौ तु' क्षपकश्रेणिपरिणामे पुनः वेदमोहनीयक्षयोत्तरकालं 'कालगर्भवत् ', काले प्रौढे ऋतुप्रवृत्त्युचिते उदरसत्त्व इव, ‘भावतो' द्वादशाङ्गार्थोपयोगरूपात्, न तु शब्दतोऽपि, “भावः' सत्ता द्वादशाङ्गस्य, 'अविरुद्धो' न दोषवान् । इदमत्र हृदयम् - अस्ति हि स्त्रीणामपि प्रकृतयुक्त्या केवलप्राप्तिः, शुक्लध्यानसाध्यं च तत्, ‘ध्यानान्तरिकायां शुक्लध्यानाद्यभेदद्वयावसान उत्तरभेदद्वयानारम्भरूपायां वर्तमानस्य केवलमुत्पद्यते' इति वचनप्रामाण्यात् । न च पूर्वगतमन्तरेण शुक्लध्यानाऽऽद्यभेदौ स्तः ‘आद्ये पूर्वविदः' [तत्त्वार्थ. ९-३९] इति वचनात्, दृष्टिवादश्च न स्त्रीणामिति वचनात्, अतस्तदर्थोपयोगरूपः क्षपकश्रेणिपरिणतौ स्त्रीणां द्वादशाङ्गभावः क्षयोपशमविशेषाददुष्ट इति ।" श्री अभयदेवसूरिविरचितायां सन्मतितर्कवृत्तौ स्त्रीनिर्वाणसम्वन्धिनी चर्चा -- " अथ स्त्रियो मुक्तिभाजो न भवन्ति, स्त्रीत्वात्, चतुर्दशपूर्वसंविद्भागिन्य इव । अत्र यदि 'सर्वाः स्त्रियो मुक्तिभाजो न भवन्ति' इति साध्येत तदा सिद्धसाध्यता, अभव्यस्त्रीणां मुक्तिसद्भावानभ्युपगमात् । अथ ‘भव्या अपि तास्तद्भाजो न भवन्ति' इति साध्यते तदा अत्रापि सिद्धसाध्यता भव्यानामपि सर्वासां मुक्तिसंगानिष्टे: "भव्वा वि ते अणंता सिद्धिपहं जे ण पावेंति" [इति] वचनप्रामाण्यात् । अथ अवाप्तसम्यग्दर्शना अपि ता न तद्भाजः इति पक्षः, अत्रापि सिद्धसाध्यता तदवस्थैव, प्राप्तोज्झितसम्यग्दर्शनानां तासां तद्भाक्त्वानिष्टेः । अथ अपरित्यक्तसम्यग्दर्शना अपि न तास्तद्भाजः तथापि सिद्धसाध्यता, अप्राप्ताऽविकलचारित्राणां सम्यग्दर्शनसद्भावेऽपि तत्प्राप्त्यनभ्युपगमात् । अथ अविकलचारित्रप्राप्तिरेव तासां न भवति, कुत एतत् ? यदि स्त्रीत्वात् पुरुषस्यापि सा न स्यात् पुरुषत्वात् । अथ पुरुषेसकलसावद्ययोगनिवृत्तिरूपा चित्तपरिणतिः स्वसंवेदनाध्यक्षसिद्धा स्वात्मनि अन्यैरनुमानादवसीयते, ननु सा स्त्रियां तथैव किं नावसीयते येन तत्र तस्याः स्वाग्रहावेशवशाद भाव: प्रतिपाद्यते। अथ तासां भगवता नैर्ग्रन्थ्यस्य अनभिधानाद् न तत्प्राप्तिः, असदेतत्, तासां तस्य भगवता -- "णो कप्पइ निग्गंथस्स णिग्गंथीए वा अभिन्नतालपलंबे पडिगाहित्तए" [बृहत्कल्प उ. १ सू. १] इत्याद्यागमेन बहुशः प्रतिपादनात् अयोग्यायाश्च प्रवज्याप्रतिपत्तिप्रतिषेधस्य -- १. तुलना--पृ० १९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146