Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha
________________
स्त्रीनिर्वाणप्रकरणे किञ्च, चेलस्य परिग्रहरूपत्वे १ " आमे तालपलंबे भिन्ने अभिन्ने वा णो कप्पइ णिग्गंथीणं परिग्गहित्तए वा" ।
[बृहत्कल्पे उ. १ सू. १] इत्यादि निर्ग्रन्थ्या व्यपदेशश्चागमे न श्रूयेत । अतो न सचेलत्वेन चारित्रासम्भवः ।
नापि स्त्रीत्वस्य चारित्रविरोधित्वेन । यतो यदि स्त्रीत्वस्य चारित्रविरोधः स्यात् तदाऽविशेषेणैव तासां प्रव्रजनं निषिध्येत, न तु विशेषेण, यथोच्यते -
२ “गन्भिणी बालवच्छा य पव्वावेउं न कप्पइ ।" [ निशीथभाष्ये ३५०८] त्ति ।
नापि मन्दसत्त्वतया, यतः सत्त्वमिह व्रततपोधारणविषयमेषितव्यम्, अन्यस्यानुपयोगित्वात्, तच्च तास्वप्यनल्पं सुदुर्धरशीलवतीषु संभवति, उक्तं च -
" ब्राह्मी सुन्दर्याया राजीमती चन्दना गणधराद्याः ।
अपि देव-मनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ॥” [स्त्रीनिर्वाण० ३६]
अतो न चारित्रासम्भवेन विशिष्टरत्नत्रयस्याभावः । इत्थं च चारित्रसम्भवे सिद्ध एव ज्ञानदर्शनसम्भवः, तत्पूर्वकत्वात्तस्य । उक्तं हि -
" पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः ।" [प्रशम० २३१]. इति तदभावपक्षोऽपि नाश्रयणीयः । त्रयाभावपक्षस्त्वेवं त्रितय सिद्धावनवसर एव । दृश्यन्ते च सम्प्रत्यपि त्रितयमभ्यस्यन्त्यस्ताः, उक्तं च -
"जानीते जिनवचनं श्रद्धत्ते चरति चार्यिकाऽशबलम् ।" [*स्त्रीनिर्वाण० ४]
अथ प्रकर्षपर्यन्तप्राप्तस्याभावः, एवं तर्हि तस्याप्यभावः किं कारणाभावेन विरोधिसम्भवेन वा ?, न तावत्कारणाभावेन, अविशिष्टरत्नत्रयाभ्यासस्यैव तन्निबन्धनत्वेनागमेऽभिधानात्, तस्य च स्त्रीष्वनन्तरमेव समथितत्वात् । नापि विरोधिसम्भवेन, तस्यास्मादृशामत्यन्तपरोक्षत्वेन केनचिद् विरोधानिर्णायादिति न रत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वम् ।
अथ विशिष्टसामर्थ्यासत्त्वेन, इदमपि कथमिति वाच्यम् ?, किं तावद् "असप्तमनरकपृथ्वीगमनत्वेन, आहोस्विद् वादादिलब्धि रहितत्वेन, अल्पश्रुतत्वेन, अनुपस्थाप्यतापाराञ्चितकशून्यत्वेन वा ? तत्र न तावदसप्तमनरकपृथ्वीगमनत्वेन, यतोऽत्र कि सप्तमनरकपृथ्वीगमनाभावो
१. तु० -पृ० १९॥ २. तु० -पृ० १७॥ ३. पृ० २८॥ ४. पृ० १४॥ ५. तु०-पृ० १५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146