Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 99
________________ स्त्रीनिर्वाणप्रकरणे न्तरेऽपि अनधीतपूर्वाणां न मुक्तिप्राप्तिर्भवेत् । न चासौ तेषामसिद्धा सिद्धप्राभृतादिग्रन्थेषु गृहिलिङ्गसिद्धानां प्रतिपादनात् । न च ते अप्रमाणम्, सर्वज्ञप्रणीतत्वेन तेषां प्रामाण्यस्य साधितत्वात् । अथ मायागारवादिभूयस्त्वाद् अबलानां न मुक्तिप्राप्तिः, न; तदा तासां तद्भयस्त्वासंभवात्, प्राक् तु पुरुषाणामपि तत्संभवोऽविरुद्धः । अथ अल्पसत्त्वाः क्रुराध्यवसायाश्च ताः इति न मुक्तिभाजः, न; सत्त्वस्य कार्यगम्यत्वात्, तस्य च तासु दर्शनात् अल्पसत्त्वत्वासिद्धिः । दृश्यन्ते हि असदभियोगादौ तृणवत् ताः प्राणपरीत्यागं कुर्वाणाः परीषहोपसर्गाभिभवं चाङ्गीकृतमहाव्रता विदधानाः । क्रूराध्यवसायत्वं दृढप्रहारिप्रभृतीनां प्रागवस्थायां तद्भवे विद्यमानमपि न मुक्तिप्राप्तिप्रतिबन्धकम्, तदवस्थायां तु तस्य तास्वपि अभाव एव ।। अथ लोकवद् लोकोत्तरेऽपि धर्मे पुरुषस्य उत्तमत्वात् मुक्तिप्राप्तिः न स्त्रीणाम् अनुत्तमत्वात्, न; अन्यगुणापेक्षाऽनुत्तमत्वस्य मुक्तिप्राप्त्यप्रतिबन्धकत्वात् अन्यथा तीर्थकृद्गुणापेक्षया गणधरादेरपि अनुत्तमत्वात् मुक्तिप्राप्त्यभावो भवेत् । अथ अशेषकर्मक्षयनिबन्धनस्य अध्यवसायस्य गणधरादिषु तीर्थकृदपेक्षया तुल्यत्वात् अयमदोषः, समानमेतद् अबलास्वपि तथाविधयोग्यतामापन्नासु । अथ महाव्रतस्थपुरुषावन्द्यत्वात् न तासां मुक्त्यवाप्तिस्तर्हि गणधरादेरपि अर्हदवन्द्यत्वात् न मुक्त्यवाप्तिः स्यात् । अथ "तित्थपणामं काउं" [आवश्यकनि० समवस० गा०४५] इत्याद्यागमप्रामाण्यात् प्रथमगणधरस्य 'तीर्थ 'शब्दाभिधेयत्वात् तदवन्द्यत्वं तस्यासिद्धं तर्हि चातुर्वर्ण्यश्रमणसंघस्यापि 'तीर्थशब्दवाच्यत्वान् तत्र तु तासामन्तर्भावात् महाव्रतस्थपुरुषावन्द्यत्वं तासामपि असिद्धम् । तन्न युक्त्यागमाभ्यां तासां मुक्तिप्राप्त्यभावः प्रतिपत्तुं शक्यः । तत्सद्भावस्तु प्रदर्शितागमात् युक्तितश्च प्रतीयत एव, तथाहि -विमत्यधिकरणभावापन्नाः स्त्रियो मुक्तिभाजः, अवाप्ताशेषकर्मक्षयनिबन्धनाध्यवसायत्वात्, उभयाभिमतगणधरादिपुरुषवत्, इत्याद्यागम-युक्तिगर्भमनुमानं निर्दोषं युक्तिशब्दवाच्यं समस्त्येव ।'-पृ० ७५१-७५४ [गुजरात विद्यापीठ प्रकाशित ॥ वादिवेताल श्री शान्तिसूरिविरचितायाम् उत्तराध्ययनसूत्र[३६-४९]बृहद्वृत्ती स्त्रीनिर्वाणसम्बन्धिनी चर्चा - "इह च ये स्त्रीनिर्वाणं प्रति विप्रतिपद्यन्ते त एवं वाच्याः - इह खलु यस्य यत्रासम्भवो न तस्य तत्र कारणावैकल्यम्, यथा सिद्धशिलायां शाल्यङ्करस्य, अस्ति च तथाविध १. तु०-पृ० २७॥ २. तु०-पृ० २८, १८ ॥ ३. तु० -पृ. २५-२६॥ ४. तुलना-पृ० १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146