Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 100
________________ द्वितीयं परिशिष्टम् स्त्रीषु मुक्तेः कारणावैकल्यम् । न चायमसिद्धो हेतुः, यतोऽस्यासिद्धत्वं किं स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वेन, आहोस्विनिर्वाणस्थानाद्यप्रसिद्धत्वेन, निर्वाणसाधकप्रमाणाभावेन वा ? तत्र यदि तावत् पुरुषेभ्योऽपकृष्यमाणत्वेन तदा तत् किं सम्यग्दर्शनादिरत्नत्रयाभावेन, विशिष्ट - सामर्थ्यासत्त्वेन, पुरुषानभिवन्द्यत्वेन, स्मारणाद्यकर्तृत्वेन, अमहद्धिकत्वेन, मायादिप्रकर्षवत्त्वेन वेति विकल्पाः । तत्र न तावत् सम्यग्दर्शनादिरत्नत्रयस्याभावेन, यतस्तस्यासौ किमविशिष्टस्य प्रकर्षपर्यन्तप्राप्तस्य वा ?, यद्यविशिष्टस्य तदा किमियं चारित्रस्यासम्भवेन उत ज्ञानदर्शनयोः, त्रयाणां वा ? यदि चारित्रस्यासम्भवेन तदा सोऽपि किं सचेलत्वेन, स्त्रीत्वस्य चारित्रविरोधित्वेन, मन्दसत्त्वतया वा ?, यदि सचेलत्वेन तदा चेलस्यापि चारित्राभावहेतुत्वं परिभोगमात्रेण, परिग्रहरूपत्वेन वा ? यदि परिभोगमात्रेण तदा तत्परिभोगोऽपि तासां तत्परित्यागाशक्तत्वेन गुरूपदिष्टत्वेन वा ? न तावत् तत्परित्यागाशक्तत्वेन, यतः प्राणेभ्यो नापरं प्रियम्, अथ च तानपि त्यजन्त्य एता दृश्यन्ते । अथ गुरूपदिष्टत्वेन तथा सति गुरूणामपि चारित्रोपकारित्वेन तासां तदुपदेशः अन्यथा वा ? यदि चारित्रोपकारित्वेन किं न पुरुषाणामपि ? अथाबला एवैता बलादपि पुरुषैः परिभुज्यन्त इति तद्विना तासां चारित्रबाधासम्भवो न पुरुषाणामिति न तेषां तदुपदेशः, उक्तं च - " वस्त्रं विना न चरणं तासामित्यहतीच्यत, विनापि । पुंसामिति न्यवार्यत" [स्त्रीनिर्वाण० २२] इति । एवं सति न चेलाच्चारित्राभावः तदुपकारित्वात्तस्य । तथाहि यद् यस्योपकारि न तत् तस्याभावहेतुः, यथा घटस्य मृत्पिण्डादि, उपकारि चोक्तनीत्या चारित्रस्य चेलम् । अथान्यथेति पक्षः, अयमपि न क्षमो, यतोऽसौ चेलस्य चारित्रं प्रत्यौदासीन्येन बाधकतया वा ? न चेदमस्मिन्नभयमप्यस्ति, पुरुषाभिभवरक्षकत्वेन तस्य तासु तदुपकारितया अनन्तरमेवोक्तत्वात् । नापि चेलस्य परिग्रहरूपत्वेन चारित्राभावहेतुत्वम्, यतो मूव परिग्रह इतीहैव परीषहाध्ययने निर्णीतम्, यदि च चेलस्य परिग्रहरूपता तदा तथाविधरोगोपसर्गादिषु पुरुषाणामपि चेलसम्भवे चारित्राभावेन मुक्त्यभावः स्यात् । उक्तं च - " अर्शोभगन्दरादिषु गृहीतचीरो यतिन मुच्येत । उपसर्गे वा चीरे" ["स्त्रीनिर्वाण० २३ ] इत्यादि । १. तु० - पृ० १८॥ २. तु० -पृ. १८॥ ३. पृ० २२॥ ४. पृ० २२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146