Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
द्वितीयं परिशिष्टम् । [स्त्रीनिर्वाणसम्बन्धिनी चर्चा यत्रोपलभ्यते तेभ्यः कतिपयप्राचीन ग्रन्थेभ्य उद्धृत्य उपयोग्यंशोऽत्र दीयते]
श्री हरिभद्रसूरिविरचितायां ललितविस्तराख्यायां चैत्यवन्दनसूत्रवृत्तौ स्त्रीनिर्वाणसम्बन्धिनी चर्चा -
" एक्को वि णमोक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ।।३।।
एकोऽपि नमस्कारः . . . जिनवरवृषभाय वर्धमानाय यत्नात् क्रियमाणः सन् ... संसारः . . . सागर इव संसारसागरः तस्मात् तारयति . . . 'नरं व नारि वा' पुरुषं वा स्त्रियं वा । पुरुषग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थम् । स्त्रीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थम् । यथोक्तं यापनीयतन्त्रे
‘णो खलु इत्थी अजीवो, ण यावि अभव्वा, ण यावि दंसणविरोहिणी, णो अमाणुसा, णो अणारिउप्पत्ती, णो असंखेज्जाउया, णो अइकूरमई, णो ण उवसन्तमोहा, णो ण सुद्धाचारा, णो असुद्धबोंदी, णो ववसायवज्जिया, णो अपुवकरणविरोहिणी, णो णवगुणठाणरहिया, णो अजोग्गा लद्धीए, णो अकल्लाणभायणं ति कहं न उत्तमधम्मसाहिग" त्ति' ।
तत्र 'न खलु' इति नैव स्त्री अजीवो वर्त्तते, किन्तु जीव एव, जीवस्य चोत्तमधर्मसाधकत्वाविरोधः तथादर्शनात् । न जीवोऽपि सर्व उत्तमधर्मसाधको भवति, अभव्येन व्यभिचारात्, तद्वयपोहायाह - न चाप्यभव्या, जातिप्रतिषेधोऽयम्, यद्यपि काचिदभव्या तथापि सर्वैवाभव्या न भवति, संसारनिर्वेद-निर्वाणधर्माद्वेष-शुश्रूषादिदर्शनात् । भव्योऽपि कश्चिद्दर्शनविरोधी यो न सेत्स्यति, तन्निरासायाह - नो दर्शनविरोधिनी, दर्शनमिह सम्यग्दर्शनं परिगृह्यते तत्त्वार्थश्रद्धानरूपम्, न तद्विरोधिन्येव, आस्तिक्यादिदर्शनात् । दर्शनाविरोधिन्यपि अमानुषी नेष्यत एव, तत्प्रतिषेधायाह - नो अमानुषी, मनुष्यजातौ भावात् विशिष्टकरचरणोरुग्रीवाद्यवयवसन्निवेशदर्शनात् । मानुष्यप्यनार्योत्पत्तिरनिष्टा, तदपनोदायाह - नो अनार्योत्पत्तिः, आर्येष्वप्युत्पत्तेः, तथादर्शनात् । आर्योत्पत्तिरप्यसंख्येयायुर्नाधिकृतसाधनाय, इत्येतदधिकृत्याह - नो असङ्खयेयायुः सर्वैव, सङ्खयेयायुर्युक्ताया अपि भावात्, तथादर्शनात् । सङ्खयेयायुरपि अतिक्रूर
१. आदित आरभ्य एतत्पर्यन्तः सर्वोऽपि पाठः प्रायोऽक्षरशो योगशास्त्रस्य (३-१२४) स्वोपज्ञवृत्तावपि दृश्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146