Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 91
________________ ५६ स्त्रीनिर्वाणप्रकरणे गार्हस्थ्येऽपि सुसत्त्वा विख्याताः शीलवतितमा जगति । सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ॥३७॥ सन्त्यज्य राज्यलक्ष्मी पति-पुत्र-भ्रातृ-बन्धुसम्बन्धम् । पारिवाज्यवहायाः किमसत्त्वं सत्यभामादेः ॥३८॥ महता पापेन स्त्री मिथ्यात्वसहायकेन, न सुदृष्टिः । स्त्रीत्वं चिनोति, तन्न तदङ्ग क्षपणेति निर्मानम् ॥३९॥ अन्तःकोटीकोटीस्थितिकानि भवन्ति सर्वकर्माणि । सम्यक्त्वलाभ एवाशेषाघक्षयकरो मार्गः ॥ ४० ॥ । अष्टशतमेकसमये पुरुषाणा'मादिरागमः सिद्धौ । स्त्रीणां, न मुख्ययोगे गौणोऽर्थो मुख्यहानिर्वा ॥४१॥ शब्दनिवेशनमर्थः प्रत्यासत्त्या क्वचित् कयाचिदसः । तदयोगे, योगे सति शब्दस्यान्यः कथं कल्प्यः ॥ ४२ ॥ अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः, सति मुख्य धीः कथं गौणे ॥४३॥ स्तनजघनादिव्यङ्गये स्त्रीशब्दोऽर्थे, न तं विहायैषः । दृष्टः क्वचिद्, अन्यत्र त्वग्निर्माणवकवद् गौणः ॥४४॥ "आ षष्ठयाः स्त्रीत्यादौ स्तनादिभिः स्त्री, स्त्रिया इति च वेदः स्त्रीवेदः, स्त्र्यनुबन्धात् पल्यानां शतपृथक्त्वोक्तिः ॥ ४६॥ न च पुंदेहे स्त्रीवेदोदयभावे प्रमाणमङ्गं च । भावः सिद्धौ, पुंवत् पुमान् स्त्र्यपि, न सिध्यतो वेदः ॥४७॥ क्षपकश्रेण्यारोहे वेदेनोच्येत भूतपूर्वेण । 'स्त्री'ति नितराममुख्ये मुख्येऽर्थे युज्यते नतराम् ॥४८॥ मनुषीषु मनुष्ये च चतुर्दशगुणोक्तिरार्यिकासिद्धौ । भावस्तवोपरिक्षय्यनवस्थोऽनियत उपचारः ॥४९॥ अनडुह्याऽनड्वाही दृष्ट्वाऽनड्वाहमनडुहाऽऽरूढम् । स्त्रीपुंसेतरवेदो वेद्यो नाऽनियमतो वृत्तः ॥५०॥ १. अस्याः कारिकाया 'आ षष्ठयाः स्त्रीत्यादौ स्तनादिभिः स्त्री' इत्यंशस्य वृत्तौ एका संग्रहार्या वर्तते (पृ० ३३), अतस्तत्र ॥४५॥' अङ्गोऽस्माभिर्दतः। सा च संग्रहार्या शाकटायनाचार्येण एवमुपन्यस्ता-- "अत्र संग्रहार्यापरिभाषितो न शास्त्रे मनुजीशब्दो न लौकिकोऽपि यतः। अमुतो न तत्र बाधा स्त्रीनिर्वाणं ततो न कुतः ॥" [४५ ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146