________________
५६
स्त्रीनिर्वाणप्रकरणे
गार्हस्थ्येऽपि सुसत्त्वा विख्याताः शीलवतितमा जगति । सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ॥३७॥ सन्त्यज्य राज्यलक्ष्मी पति-पुत्र-भ्रातृ-बन्धुसम्बन्धम् । पारिवाज्यवहायाः किमसत्त्वं सत्यभामादेः ॥३८॥ महता पापेन स्त्री मिथ्यात्वसहायकेन, न सुदृष्टिः । स्त्रीत्वं चिनोति, तन्न तदङ्ग क्षपणेति निर्मानम् ॥३९॥ अन्तःकोटीकोटीस्थितिकानि भवन्ति सर्वकर्माणि । सम्यक्त्वलाभ एवाशेषाघक्षयकरो मार्गः ॥ ४० ॥ । अष्टशतमेकसमये पुरुषाणा'मादिरागमः सिद्धौ । स्त्रीणां, न मुख्ययोगे गौणोऽर्थो मुख्यहानिर्वा ॥४१॥ शब्दनिवेशनमर्थः प्रत्यासत्त्या क्वचित् कयाचिदसः । तदयोगे, योगे सति शब्दस्यान्यः कथं कल्प्यः ॥ ४२ ॥ अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः, सति मुख्य धीः कथं गौणे ॥४३॥ स्तनजघनादिव्यङ्गये स्त्रीशब्दोऽर्थे, न तं विहायैषः । दृष्टः क्वचिद्, अन्यत्र त्वग्निर्माणवकवद् गौणः ॥४४॥ "आ षष्ठयाः स्त्रीत्यादौ स्तनादिभिः स्त्री, स्त्रिया इति च वेदः स्त्रीवेदः, स्त्र्यनुबन्धात् पल्यानां शतपृथक्त्वोक्तिः ॥ ४६॥ न च पुंदेहे स्त्रीवेदोदयभावे प्रमाणमङ्गं च । भावः सिद्धौ, पुंवत् पुमान् स्त्र्यपि, न सिध्यतो वेदः ॥४७॥ क्षपकश्रेण्यारोहे वेदेनोच्येत भूतपूर्वेण । 'स्त्री'ति नितराममुख्ये मुख्येऽर्थे युज्यते नतराम् ॥४८॥ मनुषीषु मनुष्ये च चतुर्दशगुणोक्तिरार्यिकासिद्धौ । भावस्तवोपरिक्षय्यनवस्थोऽनियत उपचारः ॥४९॥ अनडुह्याऽनड्वाही दृष्ट्वाऽनड्वाहमनडुहाऽऽरूढम् ।
स्त्रीपुंसेतरवेदो वेद्यो नाऽनियमतो वृत्तः ॥५०॥ १. अस्याः कारिकाया 'आ षष्ठयाः स्त्रीत्यादौ स्तनादिभिः स्त्री' इत्यंशस्य वृत्तौ एका संग्रहार्या वर्तते (पृ० ३३), अतस्तत्र ॥४५॥' अङ्गोऽस्माभिर्दतः। सा च संग्रहार्या शाकटायनाचार्येण एवमुपन्यस्ता--
"अत्र संग्रहार्यापरिभाषितो न शास्त्रे मनुजीशब्दो न लौकिकोऽपि यतः। अमुतो न तत्र बाधा स्त्रीनिर्वाणं ततो न कुतः ॥" [४५ ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org