________________
प्रथमं परिशिष्टम् अर्शोभगन्दरादिषु गृहीतचीरो यतिन मुच्येत । उपसर्गे वा चीरेऽङ्गादिः संन्यस्यते चान्ते ॥२३॥ मुक्त्यङ्गमचेलत्वं नोच्येत तदन्यथा नरस्यापि । आचेलक्यायोग्याऽयोग्या सिद्धरदीक्ष्य इव ॥२४॥ इति जिनकल्पादीनां मुक्त्यङ्गानामयोग्य इति सिद्धेः । स्यादष्ट वर्षजातादिरयोग्योऽदीक्षणीय इव ॥२५॥ संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । योगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी ॥२६॥ . वस्त्राद् न मुक्तिविरहो भवतीत्युक्तं, समग्रमन्यच्च । रत्नत्रयान्न चान्यद् मुक्त्यङ्ग शिष्यते सद्भिः ॥२७॥ प्रवाजना निषिद्धा क्वचित्तु रत्नत्रयस्य योगेऽपि । । धर्मस्य हानि-वृद्धी निरूपयद्भिर्विवृद्धयर्थम् ॥२८॥ अप्रतिवन्धत्वाच्चेत् संयतवर्गेण नायिकासिद्धिः । वन्द्यन्तां ता यदि तेनोनत्वं कल्प्यते तासाम् ॥ २९ ।। सन्त्यूनाः पुरुषेभ्यस्ताः स्मारणवारणादिकारिभ्यः । तीर्थकराकारिभ्यो न तावता[5]सिद्धिरङ्गगतेः ॥३०॥ अर्हन् न वन्दते न च जिनकल्पादिरिति गणधरादीनाम् । प्राप्ताऽन्यथा[s]विमुक्तिः, स्थानं स्त्रीपुंसयोस्तुल्यम् ॥३१॥ 'ये यान्न मुक्तिभाजो वन्दन्ते ते तथैव मुच्यन्ते । इत्यप्यवन्दनं स्यानामोक्षोऽवन्दनात् तेन ॥३२॥'
- इति सङ्ग्रहार्या । अपकृष्यते श्रिया स्त्री पुंसः सर्वत्र किं न तन्मुक्तौ । इत्यमुनाऽक्षेप्य स्त्रीपुंसाः सिद्धाः, सममरुक्त्वम् ॥३३॥ मायादिः पुरुषाणामपि देशादिप्रसिद्धयभावश्च । षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि ॥ ३४ ॥ स्त्री नाम मन्दसत्त्वा मुक्त्यङ्गसमग्रता न तेनात्र । तत् कथमनल्पधृतयः सन्ति हि शीलाम्बुनिधिवेलाः ॥३५॥ ब्राह्मी सुन्दर्यार्या राजिमती चन्दना गणधरान्या[:] । अपि देवासुरमहिता विख्याताः शीलसत्त्वाभ्याम् ॥३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org