________________
स्त्रीनिर्वाणप्रकरणे
'स्त्री'ति च धर्मविरोधे प्रव्रज्यादोषविंशतौ 'स्त्री'ति । बालादिवद् वदेयुर्न 'गर्भिणी बालवत्से 'ति ॥९॥ यदि वस्त्रादविमुक्तिः, त्यज्येत तद् अथ न कल्पते हातुम् । मुक्त्यङ्ग प्रतिलेखनवद्, अन्यथा देशको दुष्येत् ॥१०॥ त्यागे सर्वत्यागो ग्रहणेऽल्पो दोष इत्युपादेशि । वस्त्रं गुरुणाऽऽर्याणां परिग्रहोऽपीति भुक्त्यादौ ॥११॥ " यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहार्हन् ॥१२॥ अस्तैन्यबाहिरव्युत्सर्गविवेकैषणादिसमितीनाम् । उपदेशनमुपदेशो ह्यपधेरपरिग्रहत्वस्य" ॥१३॥ निर्ग्रन्था(न्थी)व्यपदेशः शास्त्रे सर्वत्र नैव युज्यत । उपधेर्ग्रन्थत्वेऽस्याः पुमानपि तथा न निर्ग्रन्थः ॥ १४ ॥ 'अपरिग्रह एव भवेद् वस्त्राभरणाद्यलङ्कृतोऽपि पुमान् । ममकारविरहितः, सति ममकारे सङ्गवान् नग्नः ॥१५॥ आचार्याद्यासक्तं स्वयमादित नो मुमुक्षुका लोभात् । उपसर्गाद्यासक्तभिवाम्बरमपरिग्रहस्तस्याः ॥ १६ ॥ काये ममकारेऽपि च सपरिग्रह एव नैवमुक्तः स्यात् । तत्र यथा संलग्ने नो ममकारस्तथा वस्त्रे ॥१७॥ ग्रामं गेहं च विशन् कर्म च नोकर्म चाददानोऽपि । अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥१८॥'
- इति सङ्ग्रहार्याः ।
संसक्तौ सत्यामपि चोदितयत्नेन परिहरन्त्यार्या । हिंसावती पुमानिव न जन्तुमालाकुले लोके ॥ १९ ॥ गृहिणो ममत्वयोगात् संयमसाधनगृहीत्यभावाच्च । अयतं चरतश्चरणं न विद्यते तेन नो मोक्षः ॥२०॥ त्रिस्थानोक्ता दोषास्त्रयो[s]पदेशा यते[:] सचेलत्वे । अपरिषहसहिष्णुत्वं ह्रीश्च जुगुप्सा च देहस्य ॥२१॥ वस्त्रं विना न चरणं स्त्रीणामित्यर्हतौच्यत, विनापि । पुंसामिति न्यवार्यत, तत्र स्थविरादिवन्मुक्तिः ॥२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org