________________
प्रथमं परिशिष्टम् ।
॥ शाकटायनाचार्यविरचितं 'स्त्रीनिर्वाणप्रकरणम् ॥
प्रणिपत्य भुक्ति-मुक्तिप्रदममलं धर्ममहतो दिशतः । वक्ष्ये स्त्रीनिर्वाणं केवलिभुक्ति च सङ्क्षपात् ॥१॥ अस्ति स्त्रीनिर्वाणं पुंवद् यदविकलहेतु कं, स्त्रीषु । न विरुध्यते हि रत्नत्रयसम्पद् निर्वतेहेतुः ॥२॥ रत्नत्रयं विरुद्धं स्त्रीत्वेन यथाऽमरादिभावेन । इति वाङ्मात्रं, नात्र प्रमाणमाप्तागमोऽन्यद् वा ॥३॥ जानीते जिनवचनं, श्रद्धत्ते, चरति चायिका[5]शबलम् । नाऽस्याऽस्त्यसंभवोऽस्यां, नादृष्टविरोधगतिरस्ति ।। ४ ।। सप्तमपृथिवीगमनाद्यभावमव्याप्तमेव मन्यन्ते । निर्वाणाभावेनाऽपश्चिमतनवो न तां यान्ति ॥५॥ विषमगतयोऽप्यधस्ताद् उपरिष्टात् तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥६॥ वादविकुर्वाणत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्प-मनःपर्यवविरहेऽपि न सिद्धिविरहोऽस्ति ॥७॥ वादादिलब्ध्यभाववदभविष्यद् यदि च सिद्धयभावोऽपि ।
साऽऽसामवारयिष्यत यथैव जम्बूयुगादारात् ॥८॥ १. यद्यपि अस्मिन्नेव ग्रन्थे पृ० १-७ इत्यत्र स्त्रीनिर्वाणप्रकरणमिदं मुद्रितम् तथापि A प्रतिसंगत्यर्थं यथाकथञ्चित् कारिकाणां संख्याका अस्माभिस्तत्रोपन्यस्ताः, दृश्यतां पृ० १ टि० २। तदनन्तरं वैक्रमे पञ्चदशे शतके केनचिज्जनविदूषा संकलितायां बहट्रिपनिकायां विद्यमानो निम्नलिखित उल्लेखोऽस्माभिर्दष्ट:--
"केवलिभुक्तिस्त्रीमुक्तिप्रकरणं शब्दानुशासनकृत्शाकटायनाचार्यकृतम् । तत्संग्रह श्लोकाश्च ९४।"
अयं च “९४" इत्युल्लेखः सम्यक् संगच्छते; यतः स्त्रीनिर्वाणप्रकरणे सवृत्तिकानामार्याणां संग्रहार्याणां च सम्भूय ५७ संख्या वर्तते, केवलिभुक्तौ च ३७ आर्याः, अत उभयमीलनेन ९४ संख्या सम्यग् जाघटीति । अतस्तदनुसारेण कारिकाणां संख्याकान् दर्शयितुं पुनरपि स्त्रीनिर्वाणप्रकरणमत्र मुद्रयत इति ध्येयम् । पाठान्तरादिकं तु पृ० १-७ इत्यत्रैव द्रष्टव्यम्। इतः परं परिशिष्टेषु स्त्रीनिर्वाणप्रकरणस्य कारिकाङ्का एतत्प्रथमपरिशिष्टानुसारेणैव प्रदर्शयिष्यन्त इत्यपि ध्येयम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org