Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 90
________________ प्रथमं परिशिष्टम् अर्शोभगन्दरादिषु गृहीतचीरो यतिन मुच्येत । उपसर्गे वा चीरेऽङ्गादिः संन्यस्यते चान्ते ॥२३॥ मुक्त्यङ्गमचेलत्वं नोच्येत तदन्यथा नरस्यापि । आचेलक्यायोग्याऽयोग्या सिद्धरदीक्ष्य इव ॥२४॥ इति जिनकल्पादीनां मुक्त्यङ्गानामयोग्य इति सिद्धेः । स्यादष्ट वर्षजातादिरयोग्योऽदीक्षणीय इव ॥२५॥ संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । योगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी ॥२६॥ . वस्त्राद् न मुक्तिविरहो भवतीत्युक्तं, समग्रमन्यच्च । रत्नत्रयान्न चान्यद् मुक्त्यङ्ग शिष्यते सद्भिः ॥२७॥ प्रवाजना निषिद्धा क्वचित्तु रत्नत्रयस्य योगेऽपि । । धर्मस्य हानि-वृद्धी निरूपयद्भिर्विवृद्धयर्थम् ॥२८॥ अप्रतिवन्धत्वाच्चेत् संयतवर्गेण नायिकासिद्धिः । वन्द्यन्तां ता यदि तेनोनत्वं कल्प्यते तासाम् ॥ २९ ।। सन्त्यूनाः पुरुषेभ्यस्ताः स्मारणवारणादिकारिभ्यः । तीर्थकराकारिभ्यो न तावता[5]सिद्धिरङ्गगतेः ॥३०॥ अर्हन् न वन्दते न च जिनकल्पादिरिति गणधरादीनाम् । प्राप्ताऽन्यथा[s]विमुक्तिः, स्थानं स्त्रीपुंसयोस्तुल्यम् ॥३१॥ 'ये यान्न मुक्तिभाजो वन्दन्ते ते तथैव मुच्यन्ते । इत्यप्यवन्दनं स्यानामोक्षोऽवन्दनात् तेन ॥३२॥' - इति सङ्ग्रहार्या । अपकृष्यते श्रिया स्त्री पुंसः सर्वत्र किं न तन्मुक्तौ । इत्यमुनाऽक्षेप्य स्त्रीपुंसाः सिद्धाः, सममरुक्त्वम् ॥३३॥ मायादिः पुरुषाणामपि देशादिप्रसिद्धयभावश्च । षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि ॥ ३४ ॥ स्त्री नाम मन्दसत्त्वा मुक्त्यङ्गसमग्रता न तेनात्र । तत् कथमनल्पधृतयः सन्ति हि शीलाम्बुनिधिवेलाः ॥३५॥ ब्राह्मी सुन्दर्यार्या राजिमती चन्दना गणधरान्या[:] । अपि देवासुरमहिता विख्याताः शीलसत्त्वाभ्याम् ॥३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146