Book Title: Stree Nirvan Kevalibhukti Prakarane Tika Author(s): Shaktayanacharya, Jambuvijay Publisher: Atmanand Jain SabhaPage 85
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् एकादश जिने [ तत्त्वार्थ ० ९/११] इति जिनसामान्यविषयमेतत्, न प्रविभागगोचरम्, 'अत्रेयत् क्षुत्पिपासाद्यस्ति, न सर्वभावः, क्वचित् कस्यचिद् भावेन सामान्ये सर्वभावो भवतीति न विरोधः । ननु च सीउसिण छुहा तण्हा तणफासनिसिज्जजल्लवहचरिया। दंसमसगं च रोगा एक्कारस वेयणीयं ही[ ति। शीतादयः परीसहा वेदनीयजन्मानः पठ्यन्ते । वेदनीयं च कर्म केवलिन्यस्तीति कारणसद्भावात् ते तत्र सन्तीत्युपचारेणोच्यते । 'एकादश जिने न [59a] सन्ति' इति च ननं केचित् तत्राध्याहरन्ति तद्धे तुकर्मभावात् परीषहोक्तिर्न जिन 'उपस्कार्या । नञ् नाऽभावासिद्धेः प्रमाणेन चेद् यथाश्रुतमर्थः शास्त्रस्य बाध्यते तदोपचारकल्पनाऽध्याहारो वा भवति, अन्यथाऽतिप्रसङ्गात् । अत्र च तेषामभावः प्रमाणेन न प्रतिपन्न इति यथाश्रुतत्यागेनोपचारकल्पनाऽध्याहारो वा न युज्यते । इत्यादेन[:] क्षुदादिगतिः ॥३१॥ एवमादेरागमादस्माकं केवलिनि क्षुत्पिपासाप्यस्तीति । सर्वज्ञस्य भुक्तिर्न भवति, अन्तरायोपपत्तेः, न हि सकलं पश्यन् मांसादि न पश्यति । परमावधियुक्तस्य छद्मस्थस्येव नान्तरायोऽपि । सर्वार्थदर्शने स्यात् कप्पजुगाऽसंखा बहू . . . (?) [59b]सोही नरस्सऽणुबिइयेति छद्मस्था अपि महर्षयोऽवधिज्ञानिन: सकलं त्रैलोक्यं पश्यन्ति अथ च भुञ्जते । यथा न तेषामन्तरायस्तद्वत् केवलिनोऽपि स्यात् । इन्द्रियगोचर एव ह्यन्तरायः । न चान्यथा पूर्वमपि भुक्तिः , ॥ ३२॥ यद्येवं नेष्यते तीर्थकरपरमदेवस्य छद्मस्थकालेऽपि सति श्रुतावधिमनःपर्ययधरस्य सकलं जगत् पश्यतः परमर्षे क्तिर्न स्यात् । न चावधिज्ञानोपयोगमवधिज्ञानी न करोतीति शक्यं १. S प्रतौ अत्रे इत्यक्षरद्वयं घृष्टप्रायत्वादस्पष्टं कष्टेन सम्भावितमस्माभिः। किञ्चित् सन्दिग्धं तत् ॥ २. अत्रS प्रतौ घृष्टान्यक्षराणि तथापि कथञ्चित् 'उपस्कार्यो' इति पठितुं शक्यते। N. P. प्रत्योरपि उपस्कार्य: इति पाठः॥ ३. S प्रतौ इतः परं द्वित्राण्यक्षराण्यतीव घृष्टत्वात् सम्यक् पठितुं न शक्यन्ते। (णाउं?) इत्यादयः पाठाः यथायो सम्भावनीया अत्र सुधीभिः॥ ४. अणोद्वितीये परमे इत्यर्थः कदाचित् स्यात् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146