Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 83
________________ ४८ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् स्थितिः स्यात्, ततश्छद्मस्थानामपि पूर्वकोटिभुक्त्यभावः स्यात् । न च ‘एवमस्तु' इत्यभ्युपगन्तुं शक्यं निष्प्रमाणकत्वात् । तस्माच्छद्मस्थकाले यथा तानि शरीराणि तेन तेनाहारेण मासं वर्ष वा तिष्ठन्ति - न सर्वकालं - तावता तदाहारपरिणा[55b]मस्यानिष्ठितेः, एवमुत्तरकालमपि विनाहारेण, न सर्वकालम्, निबन्धनाभावात् । न चाहाराभावे शक्या शरीरस्थितिः कल्पयितुम् । तैलक्षये न दीपो न जलागममन्तरेण जलधारा । तिष्ठति तनोस्तथा स्थितिरपि न विनाहारयोगेन ॥२६॥ दीपज्वालादिकल्पं शरीरिणां शरीरम् । तत्र यथा तैलं दीपज्वालारूपेण परिणमत इति तैलक्षये न दीपज्वालाऽवतिष्ठते, जलं जलधारारूपेणावतिष्ठत इति न जलागममन्तरेण जलधारा स्थितिमास्तिध्नुते, तथा शरीरमपि भुक्ताहारात्मनावतिष्ठत इति भुक्त्यभावे न स्थिति प्रतिपद्यते । तथा च पठन्ति -- जेण करणेण भुत्तमाहारं खलरसं काउं समत्थो हो[56a]इ तं करणमाहारपज्जत (त्ती ) त्ति वुच्चइ [ ] इत्यादि । कायस्तथाविधोऽसौ जिनस्य यदभोजनस्थितिरितीदम् । वाङ्मानं नात्रार्थे प्रमाणमाप्तागमोऽन्यद्वा ॥ २७ ॥ अस्मदादिशरीरमाहारमन्तरेण न तिष्ठति, केवलिशरीरं पुनस्तथाविधं यदाहारमन्तरेणापि तिष्ठतीति चेत्, वाङ्मात्रमेतत्, नात्राप्तवचनं प्रत्यक्षमनुमानं वा प्रमाणमुपलभामहे । ननु च केवलिशरीरमस्मदादिशरीरविलक्षणमस्वेदममलमष्टोत्तरशतलक्षणालङ्कृतं नवशतव्यञ्जनं समचतुरस्रसंस्थानं वज्रर्षभनाराचसंहननममराणामपि विस्मयनीयशोभं स्निग्धमधुरगोक्षीरपाण्डुररुधिरं सुरभितरुनिःश्वासमरुजं विजयि सुघोषमप्रमितवीर्य स्मर्यते । अस्वे[56b]दादि प्रागपि सर्वाभिमुखादि तीर्थकरपुण्यात् । स्थितनखतादि सुरेभ्यो नाक्षुद् देहान्यता वास्ति ॥२८॥ इदमस्वेदादिगुणं शरीरं केवलज्ञानोत्पत्तेः प्रागप्याजन्मनस्तथाविधमेव तीर्थकरपरमदेवानाम्, तेनाभुक्तौ प्रागप्यभुक्तिप्रसङ्गः । अतीर्थकरकेवलिनां च न तथाविधं शरीरमिति तेषां भुक्तिप्रसङ्गः । सर्वजनाभिमुख्यं पश्यद्वैरविमोचनं समन्ततो योजनव्यापि सर्वजनसाधारणं वचनमिति तीर्थकरनामकर्मोदयाद् भवति । न तस्य क्षुत्प्रतिबन्धि वचनमस्ति । इतरकेवलिषु च का गतिः स्यात् । स्थितनखश्मश्रुकेशं प्रभामण्डलाद्यलंकृतमिति देवविक्रियाजन्माऽपरश्च समवसरणादिर्बहिविभवो न बुभुक्षानिवृत्तये भवति । [57a]न च तावता शरीरान्तरमस्ति, तद्भवमरणाभावात्, जन्मान्तरवदत्रापि च पुनर्भवान्तरप्रसङ्गात् । १. चाहारभावे Sm २. शशरीरिणां S॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146