________________
४८
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् स्थितिः स्यात्, ततश्छद्मस्थानामपि पूर्वकोटिभुक्त्यभावः स्यात् । न च ‘एवमस्तु' इत्यभ्युपगन्तुं शक्यं निष्प्रमाणकत्वात् । तस्माच्छद्मस्थकाले यथा तानि शरीराणि तेन तेनाहारेण मासं वर्ष वा तिष्ठन्ति - न सर्वकालं - तावता तदाहारपरिणा[55b]मस्यानिष्ठितेः, एवमुत्तरकालमपि विनाहारेण, न सर्वकालम्, निबन्धनाभावात् । न चाहाराभावे शक्या शरीरस्थितिः कल्पयितुम् ।
तैलक्षये न दीपो न जलागममन्तरेण जलधारा । तिष्ठति तनोस्तथा स्थितिरपि न विनाहारयोगेन ॥२६॥
दीपज्वालादिकल्पं शरीरिणां शरीरम् । तत्र यथा तैलं दीपज्वालारूपेण परिणमत इति तैलक्षये न दीपज्वालाऽवतिष्ठते, जलं जलधारारूपेणावतिष्ठत इति न जलागममन्तरेण जलधारा स्थितिमास्तिध्नुते, तथा शरीरमपि भुक्ताहारात्मनावतिष्ठत इति भुक्त्यभावे न स्थिति प्रतिपद्यते । तथा च पठन्ति -- जेण करणेण भुत्तमाहारं खलरसं काउं समत्थो हो[56a]इ तं करणमाहारपज्जत (त्ती ) त्ति वुच्चइ [ ] इत्यादि ।
कायस्तथाविधोऽसौ जिनस्य यदभोजनस्थितिरितीदम् । वाङ्मानं नात्रार्थे प्रमाणमाप्तागमोऽन्यद्वा ॥ २७ ॥
अस्मदादिशरीरमाहारमन्तरेण न तिष्ठति, केवलिशरीरं पुनस्तथाविधं यदाहारमन्तरेणापि तिष्ठतीति चेत्, वाङ्मात्रमेतत्, नात्राप्तवचनं प्रत्यक्षमनुमानं वा प्रमाणमुपलभामहे । ननु च केवलिशरीरमस्मदादिशरीरविलक्षणमस्वेदममलमष्टोत्तरशतलक्षणालङ्कृतं नवशतव्यञ्जनं समचतुरस्रसंस्थानं वज्रर्षभनाराचसंहननममराणामपि विस्मयनीयशोभं स्निग्धमधुरगोक्षीरपाण्डुररुधिरं सुरभितरुनिःश्वासमरुजं विजयि सुघोषमप्रमितवीर्य स्मर्यते ।
अस्वे[56b]दादि प्रागपि सर्वाभिमुखादि तीर्थकरपुण्यात् । स्थितनखतादि सुरेभ्यो नाक्षुद् देहान्यता वास्ति ॥२८॥
इदमस्वेदादिगुणं शरीरं केवलज्ञानोत्पत्तेः प्रागप्याजन्मनस्तथाविधमेव तीर्थकरपरमदेवानाम्, तेनाभुक्तौ प्रागप्यभुक्तिप्रसङ्गः । अतीर्थकरकेवलिनां च न तथाविधं शरीरमिति तेषां भुक्तिप्रसङ्गः । सर्वजनाभिमुख्यं पश्यद्वैरविमोचनं समन्ततो योजनव्यापि सर्वजनसाधारणं वचनमिति तीर्थकरनामकर्मोदयाद् भवति । न तस्य क्षुत्प्रतिबन्धि वचनमस्ति । इतरकेवलिषु च का गतिः स्यात् । स्थितनखश्मश्रुकेशं प्रभामण्डलाद्यलंकृतमिति देवविक्रियाजन्माऽपरश्च समवसरणादिर्बहिविभवो न बुभुक्षानिवृत्तये भवति । [57a]न च तावता शरीरान्तरमस्ति, तद्भवमरणाभावात्, जन्मान्तरवदत्रापि च पुनर्भवान्तरप्रसङ्गात् ।
१. चाहारभावे Sm २. शशरीरिणां S॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org