________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् अस्मदादीनामाहारेण विना कायस्थितिर्न भवति, स पुनर्भगवान् केवली वीर्यान्तरायापायविजृम्भितानन्तवीर्यलब्धिः, ततो विनाप्याहारेणास्य कायस्थितिर्भवतीति चेत्, न,
आयुरिवाभ्यवहारो जीवनहेतु विनाभ्यवहृतेश्चेत् । तिष्ठत्यनन्तवीर्यो विनायुषा[s]कालमपि तिष्ठेत् ॥ २३ ॥
आयुष्कर्मवदाहारोऽपि कायस्थितिकार[54a]णम् । तत्र यद्यनन्तवीर्यत्वाद् विनाहारेण कायस्थितिः स्यात् तहिं विनायुष्केणापि कर्मणा स्यात्, ततश्च न कदाचिच्छरीरवियोग इति मुक्त्यभावप्रसङ्गः । आयुरपेक्षायामेवमाहारापेक्षाप्यस्तु । न ह्यनन्तं वीर्य कायस्थितावाहारकारणे निरपेक्षमन्यत्र सापेक्षमित्यत्र प्रमाणमुपलभामहे ।
किञ्च, न ज्ञानवदुपयोगो वीर्ये, कर्मक्षयेण लब्धिस्तु । तत्रायुरिवाहारोऽपेक्ष्येत न तत्र बाधास्ति ॥ २४ ॥
अन्तरायक्षयाद् यथावरणक्षयाज्ज्ञानदर्शनोपयोगावेव भवतस्तथा न वीर्योपयोगः, लब्धिस्तु केवला भवति, उपयोगस्तु स्वभावे निमित्तान्तरमपेक्षते, अन्यथा सिद्धानामपि[54b] 'स्यात्, तथा च तत्र सर्वज्ञानोपयोगवत् सर्वव्यापारप्रसङ्गः । तथा च पठन्ति --
विरियंतरायदेसक्खएण सव्वक्खएण वा लद्धी। अभिसंधिजमियरं वा तत्तो विरियं सलेसस्स ।। सिद्धाण विरियलद्धी लद्धिसविरिया य सव्वसंसारी।
सेलेसीकरणेणं अविरिय सविरिया य जोगजुया ॥ [ ] इति । तत्र निमित्तान्तरापेक्षायां शरीरधारणे आयुर्वदभ्यवहारस्यापि दृष्टसामर्थ्यस्यापेक्षास्तु, न तत्र किञ्चिद् बाधकं पश्यामः ।
अथैवं मन्येत -- तच्छद्मस्थकाले भुक्तेनाहारेण सर्वज्ञकालेऽपि कायस्थितिः स्यात, त(य)थेदानी पूर्वगृहीतेनाहारेण मासं चत्वारिंशतं वा दिवसाना[55a]दितीर्थे च वर्ष मध्यमतीर्थेषु च षण्मासानिति ।
मासं वर्ष वापि च तानि शरीराणि तेन भुक्तेन । तिष्ठन्ति न चाऽऽकालं, न चान्यथा पूर्वमपि भुक्तिः ॥ २५ ॥ __ किं तान्येव शरीराणि विनाहारेण सर्वज्ञकाले स्थितौ मूलमुतान्यत् किञ्चित् तत् ? यदि अन्यत्, तन्न ज्ञानादि कारणम् उक्तवत् । यदि तान्येव शरीराणि, केवलिकालात् पूर्वमपि तथा
१. अस्मिस्ताल पत्रे मध्ये रिक्तभागे केनचिदधस्तादेवं लिखितमस्ति --"श्रीज्ञानवर्धनगणयः मासचतुष्टयान्तराचार्या भविव्यंति निश्चितं श्री २४ त् प्रसादात् ।” एतत्पुस्तकस्वाम्यादिना केनचिदेतल्लिखितमिति संभाव्यते ।।
२. वाकाले Su
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org