________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलकृतं केवलिभुक्तिप्रकरणम् चरमदेह इति सम्यग्दर्शनज्ञानचारित्रैर्भवन्ती मुक्तिन विना तैर्भवति । चरमदेहत्वं च ध्रुवं मुक्तिकारणानि तस्य सम्पद्यन्त इत्येव विज्ञायते । तथाऽनपवर्तायुष्क इति भुक्त्या भवन्ती कायस्थितिर्न विना तया भवति । अनपवर्तायुष्कत्वमिति च ध्रुवमस्यानपवर्तहेतवः सम्पद्यन्ते 'नापवर्तहेतव इति विज्ञायते ।
किञ्च, असति क्षुद्बाधेऽङ्गेऽलये न शक्तिक्षयो न संक्लेशः ।। आयुश्चानपवतं बाधलयो प्राग्वदधुनापि ॥२०॥
अनपवर्तायुष्कत्वात् केवली न भुङ्क्ते इति ब्रुवाणस्य चरमदेह[52b]स्य छद्मस्थकालेऽपि भुक्त्यभावप्रसङ्गः, तदाप्यनपवर्तायुष्कत्वस्याविशेषात् । अथ तदा भुक्त्यभावे शक्तिक्षयः स्यात् शक्तिक्षयनिबन्धनस्यान्तरायस्य विद्यमानत्वात्, संक्लेशश्च संक्लेशहेतोर्मोहनीयस्य भावात्, अतस्तन्निवृत्तये भुङ्क्ते इति । स शक्तिक्षयः संक्लेशश्च किं क्षुद्बाधायां तया च शरीरहानौ सत्यां भवति उत असत्यामेव ? असत्यां यदि स्याद् भुक्तावपि सत्यां प्राप्नोति । तदसत्यां क्षुद्बाधायां शरीरहानौ च न शक्तिक्षयो न संक्लेशः । अथ सत्याम्, यथा छद्मस्थावस्थायां सत्यप्यनपवर्तायुष्कत्वे क्षुद्बाधा तया च शरीरविलयः तथा केवल्यवस्थायामपि क्षु[53a]द्बधा तया च -- मा भून्मोहाभावात् संक्लेशः -- शरीरविलयः प्राप्नोतीति ।
देशोनपूर्वकोटीविहरणमेवं सतीह केवलिनः । सूत्रोक्तमुपापादि न, मुक्तिश्च न नियतकाला स्यात् ॥२१॥
शरीरविलये च ‘मासपृथक्त्वेनाष्टाभिश्च वर्षेरूना पूर्वकोटी उत्कर्षेण केवलिविहरणकाल: शास्त्रे पठ्यते' तन्नोपपन्नम् । नियतकाला च मुक्तिस्तस्य केवलिनो देशोनपूर्वकोट्यादेः प्रविहरणकालस्यान्ते भवन्ती 'तत्कालाप्राप्तौ न स्यात्, ओदनपाकादिवत् ।
अतः अपवर्त हेत्वभावेऽनपवर्तनिमित्तसम्पदायुष्के । स्यादनपवर्त इति तत् केवलिभुक्ति समर्थयते ॥२२॥
अ[53b]नपवर्तमायुः अपवर्तहेतवो यदि न सन्निपतेयुः जीवनहेतवश्च यदि सम्पद्येरन्नेवं स्यात्, नान्यथा। भुक्तिश्च जीवनहेतुः, तदभावश्चापवर्तकारणम्, इत्यनपवर्तायुष्कत्वं केवलिनो दीर्घकालविहारस्य भुक्तिमेव प्रतिपादयति, न तदभावम् ।
१. नापवर्तन्ते हेतवः S। (नापवर्तने हेतवः?) । २. तत्काल S. || ३. भावो P.S. ॥ ४. 'दायुष्को P॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org