________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् 'उदयः फलं न तस्मिन्नुदीरणेत्यफलता न वेद्यस्य । नोदीरणा फलात्मा तथा भवेदायुरप्यफलम् ॥ १४ ॥ अनुदीर्णवेद्य इति चेद् न क्षुद्, वीर्य किमत्र, न हि वीर्यम् । क्षुदभावे, क्षुदभावे न स्थित्य, क्षुधि तनोविलयः ॥१५॥ अपवर्तते[5] कृतार्थ नायुर्ज्ञानादयो न हीयन्ते ।।
जगदुपकृतावनन्तं वीर्य किं गततृषो भुक्तिः ॥१६॥ [51a][ न ज्ञानादिक्षयः, न च वीतमोहस्य रसगृद्धिरस्ति । तन्नास्य भोजने किञ्चित् प्रयोजनमुपलभामहे । न च विना प्रयोजनेन प्रेक्षावतामस्ति प्रवृत्तिरिति न केवलिभुक्तिः ।
उच्यते-- ज्ञानाद्यलयेऽपि जिनेऽमोहेऽपि स्यात् क्षुदुद्गते भुक्तिः ।
यदप्युक्तं 'न ज्ञानादिक्षयो वीतमोहत्वाच्च न रसगृद्धिः' तथापि क्षुदुद्गते भवति भुक्तिः, दीर्घकालविहरणात्, अन्यथा तदयोगात् । भवति च रागेण विनौषधपानादिवत् प्रयोजनापेक्षया भुक्तिः, यथा समुद्घातध्यानयोगेन कर्मक्षपणे यत्नः । न च भोजने प्रयोजनं नास्ति ।
वचनगमनादिवच्च प्रयोजनं स्वपरसिद्धिः स्यात् ॥१७॥
वचनगमनस्थानासनोत्थानादि[51b]षु क्रियान्तरेषु भगवतः केवलिनो यत् प्रयोजनमभ्युपगम्यते स्वसिद्धिः परसिद्धिर्वा तदेव भुक्तिक्रियायामपि प्रयोजनं स्यात् । तथाहि -
ध्यानस्य समुच्छिन्नक्रियस्य चरमक्षणे गते सिद्धिः । सा नेदानीमस्ति, स्वस्य परेषां च कर्तव्या ॥१८॥
अयोगिकेवलिनि समच्छिन्नक्रियाऽप्रतिपाति शुक्लध्यानं भवति, तस्य चरमक्षणे गते सिद्धिर्भवति । सा नेदानीमुत्कर्षेण देशोनपूर्वकोटिं विहरति सयोगकेवलिनि भगवतीत्यात्मनः कर्तव्या परेषां च भव्यानाम् । अतस्तत्सिद्धिः प्रयोजनं स्यात् ।
ननूक्तम् --- अनपवर्तायुः, तत एव तत्सिद्धिर्भवतीति । रत्नत्रयेण मु[52a]क्तिर्न विना तेनास्ति चरमदेहस्य । भुक्त्या तथा तनोः स्थितिरायुषि नन्वनपव]ऽपि ॥१९॥
१. उदयं P॥ २. 'क्षदभावो न स्थित्यै' इत्यपि पाठोऽत्र साधुर्भवेत् ।। ३. चरमे NU
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org