________________
४४
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम्
तत्प्रतिविधानकाङ्क्षा तु । मूढस्य भवति मोहात् तया भृशं बाध्यमानस्य ॥८॥
न क्षुत् स्वयमग्निदाहादितुल्या मोहः । या तु तत्र क्षुत्प्रतिकारिण्यशनपानादौ शीतोष्णबाधाप्रतिकारिणीव वस्तुनि काङ्क्षा सा मोहः, न क्षुत्, क्षुत्कार्यं तु । सापि यस्य मोहनीयं कर्मास्ति तस्य क्षुधा भृशं बाध्यमानस्य तद्धीप्रवृद्धमोहोदयस्य मोहादुपजायते, क्षुत् तत्र तदुबोधने व्याप्रियते । भगवतस्तु क्षुधि समुपजातायामपि मोहनीयाभावाद् मोहरूपा काङ्क्षा नोपजायते, काङ्क्षाकार्यविनिर्मुक्ता केवला क्षुदेव निर्धूम इव पावकः समवतिष्ठते यदि न नष्टकर्म ...
[तैजसमृदूकृतस्य द्रव्यस्याभ्यवहृतस्य पर्याप्त्या । ३उत्तरपरिणामे क्षुत् क्रमेण, भगवति च तत् सर्वम् ॥९॥ ज्ञानावरणीयादेर्शानावरणादि कर्मणः कार्यम् । क्षुत् 'तद्विलक्षणा,ऽस्यां न तस्य सहकारिभावोऽपि ॥१०॥ ५क्षुद्बाधिते न जाने न चेक्ष इत्यस्ति ननु विपर्यासः । तद्वेद्यं सहकारि तु तस्य, न तद् वेद्य सहकारि ॥११॥ ज्ञानावरणादीनामशेषविगमात् क्षुधि प्रजातायाम् । "अपि न ज्ञानादीनां हानिः स्यादितरवत् तत्र ॥१२॥ नष्टविपाकः (का?) क्षुदिति प्रतिपत्तौ भवति चागमविरोधः । शीतोष्णक्षुदुदन्यादयो हि ननु वेदनीय इति ॥१३॥
१. तद्वा प्रवद्ध० SI 'तया प्रवद्ध' इति 'तदबा[धया प्रवृद्ध' इति वा पाठोऽपि कल्पयितं शक्यते ।। २. S प्रतौ इतः परं पञ्च पत्राणि न प्राप्तानि । अतः N. P. प्रती अवलम्ब्य [ ] एतच्चिह्नान्तर्गतः मूलकारिकात्मक एव भागः पूरितोऽस्माभिः।। ३. अनुत्तर. N.P. || ४. ०णा स्यान्न तस्य NI ५. क्षुद् बाधते N। 'क्षुद्बाधितो' इत्यपि पाठोऽत्र स्यात् । तुलना --
"क्षुत्पीडितोऽहं न किञ्चिज्जानामि, न किञ्चित् पश्यामि, उत्थातुमपि न शक्नोमि' इति प्रतीतेः" -- न्यायकुमु० पृ. ८६१ ॥
६. विगमा PM ७. अपि तद् ज्ञानादिनां N. P. |
"भगवति तु तदावरणादेरशेषस्यापगमात् सत्यामपिाधि न ज्ञानादि क्षयः। न ह्यग्न्यभावे सत्यपीन्धने धूमो भवति । तत्कर्मचतुष्टयप्रभवत्वे च क्षुधः “एकादश जिने क्षुत्पिपासादयः परीषहा वेदनीयप्रभवाः" [ ] इत्यागमविरोधः।" - न्यायकुमु० पृ० ८५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org