________________
शाकटायनाचार्यप्रणीतं स्वोपनवृत्तिसमलङ्कृतं केबलिभुक्तिप्रकरणम् भवति लोभात्मिका तृष्णा मोहः, स निर्मोहस्वभावेन विरुध्यते । निर्मोहश्च भगवान् केवली, 'मोहक्षयादावरणान्तरायक्षयाच्च केवलम् [ तत्वार्थ० १०/१] इति वचनात् । आप्तता वाऽन्यथा हीयेत । [45a]अतो न क्षुद्वान् केवली, क्षुद्विरोधिविमोहतारूपत्वात् । यत्र यद्विरोधि सन्निधीयते न तत्र तत् सन्निहितं भवति यथाग्निसन्निधाने शीतमिति प्रतीयते । तथा विषयकाङ्क्षात्मिका क्षुद् मोहरूपा मोहनीयाद् भवितुमर्हति । तच्च मोहनीयं कर्म कारणं तस्मिन् भगवति साकल्येन विनष्टम् । कारणाभावाच्च कार्याभाव यथाग्न्यभावाद्धमाभाव इति क्षुदभावः ।
तक्षाद्यभावेऽपि प्रासादादयस्तिष्ठन्ति तक्षादीनां प्रासादाद्यात्मलाभे आत्मलाभकारणानां तस्थितावकारणत्वात् । न चैवं कर्मफलानां कर्माभावेऽप्यवस्थानं सिद्धेष्वपि प्रसङ्गादिति चेत्,
न क्षुद्विमोहपाको यत् प्रतिसङ्ख्यानभावननिवर्त्या । न भवति, विमोहपाकः सर्वोऽपि हि तेन विनिवयंः ॥७॥
[45b]यो यो मोहः स सर्वः प्रतिपक्षभावनया निवर्त्यते यथा क्षमादिभावनया क्रोधादिः । मोहनिग्रहाय हि प्रतिपक्षभावनोपदेशि सर्वमध्यात्मशास्त्रम् । यदि च क्षुदपि मोहात्मिका प्रतिपक्षभावनया कयाचित् क्रोधादिवदुपरमन्ती अनुभूयेत । तथा च तयैव क्षुद् विनिवर्तते निराबाधा च कायस्थितिरमोहाऽनवद्येति शास्त्रं क्षमादिवत् क्षुत्प्रतीकारे प्रतिपक्षभावनामेवोपदिशेत्, न क्लेशभूयिष्ठां ध्यानाध्ययनविघातकारिणीमथिकां पिण्डैषणाम् । न चैवम् । तस्मान्न क्षुद्विमोहरूपा ।
न च धृतिभावनया क्षुन्निवृत्तिरस्ति । धृत्या हि कियन्तं कालमाहारो [46a] नोपादीयेत, न क्षुदभावः । तथा च धृत्याऽनुपात्ताहाराः क्षुदग्निप्लुष्टकायाः प्राणानुज्झन्ति । न च क्षुदभावेऽनश्नतां शरीरपातो युक्तः । चित्तव्याक्षेपाच्च कदाचितदनाभोगो नाभावात् । तथा च ततः प्रत्युत्थितः सद्यः क्षुधं वेदयते ।
शीतोष्णबाधतुल्या क्षुत् तत्
यत एवं तस्माद्यथा शीतोष्णबाधा न मोहरूपा न च मोहनीयपाकः, वेदनीयादेव तु प्राप्तादुपजायते । न हि तत्र रतेररतेर्वा निमित्तभावः, सामर्थ्यानुपलक्षणात् । क्षुदपि तादृशी बाधारूपा, ३न मोहरूपा, न मोहनीयकार्या, न हि तत्र मोहनीयस्य कश्चिद् व्यापारः शक्यः कल्पयितुं येन मोहनिवृत्तेनिवर्तेत ।
ननु च क्षुत्पिपासादिता वयमाहारं तदाध्यानपराः काङ्क्षामः । [46b]यदि न मोहरूपा क्षुत् तत् कथम् ? इति चेत्, उच्यते --
१. " मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम्" --तत्त्वार्थ० १०/१॥ २. अत्र विमोहशब्दस्य 'विशिष्टो मोहः' इत्यर्थः प्रतीयते ॥ ३. न मोहरूपा s. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org